This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
परत्वाविशेषादित्याह (तत्रैव आ० गि०) । (ख) सर्वकर्मत्यागः । यथा च काम्या-
नामश्वमेधादीनां कर्मणां न्यासं परित्यागं संन्यासम्.... (गी० १८/२ शा० भा० ) ।
यथा - सर्वेषां नित्यनैमित्तिककाम्यानां कर्मणां फलत्यागमेव त्यागं विचक्षणाः । प्राहुर्न
स्वरूपतस्त्यागं प्राहुः (तत्रैव नी० क० ) । यथा - काश्यानां फलकामनया चोदितानां
अन्तःकरणशुद्धावनुपयुक्तानां कर्मणामिष्टिपशुसोमादीनां न्यासं त्यागं संन्यासं
विदुर्जानन्ति कवयः सूक्ष्मदर्शिनः (तत्रैव म० सू० ) । यथा - काम्यानां स्वर्गादि-
कामनाप्रयुक्तानामश्वमेधादीनां कर्मणां न्यासं परित्यागं संन्यासं ..... विजानन्ति (तत्रैव
भाष्यो०) । यथा - "पुत्रकामो यजेत्" "स्वर्गकामो यजेत्" इत्येवमादिकामोपबन्धेन
विहितानां काम्यानां कर्मणां न्यासं परित्यागं सन्यासं कवयो विदुः (तत्रैव श्रीधरी) ।
 
"
 
२५४
 
पक्वधीः- जगद्व्यवहारं पश्यन्नपि यस्य बुद्धिः अद्वैते स्थिरा अस्ति । यथा-
विवर्तपक्षेऽपि यो व्यवहारसङ्करं शङ्कमानोऽद्वैत एवाभिनिविष्टमतिर्भवति स पक्वधीः
(सं० शा० ३।४० अ० टी०) ।
 
-
 
-
 
-
 
-
 
पञ्चकोशः - १. अन्नमयकोशः, २. प्राणमयकोशः, ३. मनोमयकोशः,
४. विज्ञानमयकोशः, ५. आनन्दमयकोशश्च । यथा - अन्नं प्राणोमनोबुद्धिरानन्दश्चेति
पञ्च ते । कोशास्तैरावृतः स्वात्मा विस्मृत्य संसृतिं व्रजेत् (प० द० १ । ३३ ) । यथा
च तद्विजिज्ञाषयिपयैवान्नमयादय आनन्दमयपर्यन्ता पञ्चकोशाः कल्प्यन्ते (ब्र० सू
१ । १ । १९ शां० भा०) । यथा च - अस्य प्राज्ञत्वमस्पष्टोपाधितया अनतिप्रकाशकत्वात्
अस्यापीदमहङ्कारादिकारत्वात् कारणशरीरम् । आनन्दप्रचुरत्वात् कोशवदाच्छा-
कत्वाच्चान्नमयकोशः। सर्वोपरमात् सुषुप्तिरत एव स्थूलसूक्ष्मशरीरप्रपञ्चलयात्
प्रपञ्चलयस्थानमिति चोच्यते । .... इयं बुद्धिर्ज्ञानेन्द्रियैः सहिता विज्ञानमयकोशो
भवतिः । अयं कर्तृत्वभोकतृत्वसुखित्वदुःखित्वाद्यभिमानित्वेनेहलोकपरलोकगामी व्यावहारिको
जीव इत्युच्यते । मनस्तु ज्ञानेन्द्रियैः सहितं सन्मनोमयकोशो भवति ।.... एतप्राणादि-
पञ्चकमाकाशादिगतरजोंऽशेभ्यो मिलितेभ्यः उत्पद्यते । इदं प्राणादिपञ्चकं कर्मेन्द्रियैः
सहितं सप्राणमयकोशो भवति । अस्य क्रियात्मकत्वेन रजोंऽशकार्यत्वम् । एतेषु कोशेषु
मध्ये विज्ञानमयो ज्ञानशक्तिमान् कर्तृरूपः । मनोमय इच्छाशक्तिमान् करणरूपः ।
प्राणमयः क्रियाशक्तिमान् कार्यरूपः । योग्यत्वादेवमेतेषां विभाग इति वर्णयन्ति ।
एतत्कोशत्रयं मिलितं सत् सूक्ष्मशरीरमित्युच्यते । .... एतत्समष्ट्युपहितं चैतन्यं
वैश्वानरो विराडिति चोच्यते सर्वनराभिमानित्वाद् विविधं राजमानत्वाच्च । अस्यैषा
समष्टिः स्थूलशरीरमन्नविकारत्वादन्नमयकोशः स्थूलभोगायतनत्वाच्च स्थूलशरीरं