This page has not been fully proofread.

4
 
शाङ्कुरवेदान्तकोशः
 
नैष्ठिकी - ज्ञाननिष्ठाक्रमेण प्राप्ता । यथा- नैष्ठिकीं निष्ठायां भवां सत्त्वशुद्धिज्ञान-
-
 
प्राप्तिसर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेष: (गी०५।१२ शा० भा०) । यथा -
नैष्ठिकीं सत्त्वशुद्ध्यादिक्रमप्राप्तब्रह्मनिष्ठाफलभूतां प्राप्नोति (तत्रैव नी० क०) । यथा-
नैष्ठिकीं सत्त्वशुद्धिनित्यानित्यवस्तुविवेकसंन्यासज्ञाननिष्ठाक्रमेण जातामिति यावत्
(तत्रैव म० सू०) । युक्तः परमेश्वरैकनिष्ठः सन्कर्मणां फलं त्यक्त्वा कर्माणि
कुर्वन्नात्यन्तिकीं शान्ति मोक्षं प्राप्नोति (तत्रैव श्रीधरी)।
 
-
 
न्यायः – १ . अयनं आयः नियमेन आयः न्यायः । नियमपूर्वकं गमनं ज्ञानमिति ।
यथा - "पुनः प्रतिन्यायं प्रतियोन्या द्रवति स्वप्नान्तायैव (बृ० उ० ४ । ३ ।१६) । अयनं
आयः नियमेन गमनं न्यायः । जीवः प्रतिन्यायं सम्प्रसादे सुषुप्तावस्थायां बुद्धान्ताया-
द्रवति आगच्छति प्रतियोनि । यो हि व्याघ्रयोनिः सुषुप्तो बुद्धान्तमागच्छन् स व्याघ्र
एव भवति न जात्यन्तरम् । तदिदमुक्तम्- त इह व्याघ्रो वा सिंहो वेति । अथ तत्र
सुप्त उत्तिष्ठेदिति (ब्र० सू० ३।२।९ भाम०) इत्यद्वैतवेदान्तिनः । २. (क) प्रमाणैरर्थ-
परीक्षणमथवा समस्तप्रमाणव्यापारादर्थाधिगतिर्न्यायः । अत्र व्युत्पत्तिः । नियते प्राप्यते
विवक्षितार्थसिद्धिरनेनेति न्यायः । (ख) आन्वीक्षिकी विद्या न्यायशास्त्रे (वात्स्य
भा० १।१।१ ) ।
 
२५३
 
न्यास:
 
-
 
१. (कं) ब्रह्मा । यथा – "न्यास इति ब्रह्मा, ब्रह्मा हि परः परो
 
-
 
-
 
हि ब्रह्मा तानि वा एतान्यवराणि तपांसि न्यास एवात्यरेचयत् (नारा० उ० ७८) ।
...इत्याद्याः श्रुतयः । ... ब्रह्मसंस्थस्य कर्माभावं दर्शयन्ति (ब्र० सू० ३।४।२० शाळ
भा०)। ब्रह्मसंस्थत्वमसाधारणं परिव्राजकधर्मश्रुतिरादर्शयतीत्याह- तथा च न्यास
इति ब्रह्मेति । सर्वसङ्गपरित्यागो हि न्यासः, स ब्रह्मा, कुतः ? इत्यत आह - ब्रह्मा हि
परः । अतः परो न्यासो ब्रह्मेति । किंमपेक्ष्य परः संन्यास इत्यत आह - तानि वा
एतान्यवराणि तपांसि न्यास एवात्यरेचयदिति । एतदुक्तं भवति ब्रह्मपरतया सर्वेषणा-
परित्यागलक्षणो न्यासो ब्रह्मेति । तथा चेदृशं न्यासलक्षणं ब्रह्मसंस्थत्वं भिक्षोरेवा-
साधारणं नेतरेषामाश्रमिणाम् । ब्रह्मज्ञानस्य शब्दजनितस्य यः परीपाकः
साक्षात्कारोऽपवर्गसाधनं तदङ्गतया पारिव्राज्यं विहितम्, न त्वनधिकृतं प्रतीत्यर्थः
(तत्रैव भाम०) । यथा च - परमात्मज्ञाननिष्ठालक्षणत्वात् प्रकृतः संन्यासो ब्रह्मोच्यते
"न्यास इति ब्रह्म" (गी० ५/६ शा० भा०) । यथा - तत्र ब्रह्मशब्दप्रयोगे हेतुमाह-
परमात्मेति । लक्षणशब्दो गमकविषयः संन्यासे ब्रह्मशब्दप्रयोगे तैत्तिरीयके श्रुतिं
प्रमाणयति - न्यास इति । कथं संन्यासे हिरण्यगर्भवाची ब्रह्मशब्दः प्रयुज्यते । द्वयोरपि
 
.
 
-
 
--