This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
J
 
-
 
निःश्रेयः - , निःश्रेय
१. संसारस्य अत्यन्तोपरमः । यथा "तस्यास्य गीताशास्त्रस्य संक्षेपतः

प्रयोजनं परं निःश्रेयसं सहेतुकस्य संसारस्यात्यन्तोपरमलक्षणम् । तच्च सर्वकर्मसंन्यास-

पूर्वकात्मज्ञाननिष्ठारूपाद्धर्माद् भवति । तथेममेव गीतार्थधर्ममुद्दिश्य भगवतैवोक्तम्"

स हि धर्मः स पर्याप्तो ब्रह्मणः पदसेवनम् इत्यनुगीतासु (गी० उपो० शा० भा० ) ।

जीवस्याविद्याप्रभवमिथ्याज्ञाननिवृत्तौ स्वस्वरूपाधिगमः इति । आनन्दमयपरमात्मनि

जीवात्मलयः मुक्तिरिति । तत्र लयश्च लिङ्गशरीराऽपगमः । लिङ्गशरीरञ्च एकादशेन्द्रियाणि

पञ्चमहाभूतानि सूक्ष्ममात्रयावस्थितानि जीवात्मसुखदुःखावच्छेदकानि । एष एकादशेन्द्रिय

पञ्चभूतरूपस्य लिङ्गशरीरस्य जीवात्मनोऽपगमो विश्लेषः । स एव परे ब्रह्मणि जीवस्य

लयः उच्यते । इत्यद्वैतवेदान्तिनः । २. पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं

स्वरूपप्रतिष्ठा वा चिच्छक्ति : (पा० यो० सू० ४ । ३४ ) । इति पातञ्जलाः । ३ प्रकृति-

पुरुषयोर्वियोगः कैवल्यमिति सांख्याः ।४. यथा - यदा तु तत्त्वज्ञानात् मिथ्याज्ञानमपैति

तदा मिथ्याज्ञानापाये दोषा अपयान्ति । दोषापाये प्रवृत्तिरपैति प्रवृत्त्यपाये जन्मापैति,

जन्मापाये दुःखमपैति, दुःखापाये चात्यन्तिकोऽपवर्गो निःश्रेयसमिति (वात्स० भा०

१ ।१ ।२) । यथा च – दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापायादपवर्गः (गौ०

सू० १।१।२) । अयं भावः जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रहाणं निःश्रेयसम् । तच्च

शास्त्रज्ञानानन्तरं पदार्थतत्वज्ञानेनात्मसाक्षात्कारानन्तरं अनारब्धकर्मणां ज्ञानात्

प्रारब्धकर्मणां भोगाच्च क्षये सति उत्पद्यते । उक्तञ्च - प्रमाणप्रमेय तत्त्वज्ञानानि :-

श्रेयसाधिगमः (तत्रैव १ ।१।१ ) । इति न्यायविदः । द्रव्यादिषण्णां पदार्थानां साधर्म्य-

वैधर्म्याभ्यां तत्त्वज्ञानं निःश्रेयसहेतुः (प्रश० भा०) इति वैशेषिकाः । एवञ्च योगबलेन

आत्मतत्त्वसाक्षात्कारे सति तेन च सवासनमिथ्याज्ञाने ध्वस्ते तन्निबन्धनानां रागद्वेष-

मोहानां दोषाणामपायात् प्रवृत्तेरपाये तन्निबन्धनस्य जन्मनः अपाये तन्निबन्धनस्य

दुःखस्यापायः निःश्रेयः । तपोविद्या हि विप्रस्य निःश्रेयसकरं परम् (म० स्मृ०

१२।१०४) । ५. मङ्गलं कल्याणमिति लौकिकाः ।
 
२५२
 
.....
 
-
 

 
नैष्कर्म्यम् - , नैष्कर्म्यम्
सर्वकर्मशून्यत्वम् । यथा - नैष्कर्म्यं निष्कर्मभावं कर्मशून्यताज्ञानयोगेन

निष्ठां निष्क्रियात्मस्वरूपेणैवावस्थानमिति यावत् (गी० ३।४ शा० भा०) । यथा -

निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यम् (तत्रैव आ० गि०) । यथा -
नैष्कर्म्यं
सर्वकर्मशून्यत्वं ज्ञानयोगेन निष्ठामिति यावत् (तत्रैव म० सू०) । यथा- नैष्कर्म्यं

कर्मशून्यत्वं ज्ञानयोगेन निष्ठाम् (तत्रैव भाष्यो०)।
 
-
 
नैष्कर्म्यं