2023-03-12 05:01:11 by ambuda-bot
This page has not been fully proofread.
शाङ्कवेदान्तकोशः
२५१
च - ज्ञानाकरणकं ज्ञानं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । तद्
द्विविधम् - निर्विकल्पकं सविकल्पकं चेति । निष्प्रकारकं ज्ञानं निर्विकल्पकम् ।
सप्रकारकं ज्ञानं सविकल्पकम् । यथा- डित्थोऽयं ब्राह्मणोऽयम् । श्यामोऽयमिति
(त० सं० १ ख०) ।
.
निवृत्तिः - निवर्तनं परिहारः परित्यागः परिवर्जनं च । निवृत्तिं प्रति फलगतद्वेषो
द्विष्टसाधनताज्ञानं च कारणमथवा उत्कटद्वेषजन्यो यनविशेषः इति वैशेषिकाः ।
अत एव ज्ञानेन अज्ञानं निवर्तत इति । ज्ञाननिर्वर्त्यमज्ञानमित्यद्वैतवेदान्तिनः । संयोगाभाव
एव निवृतिरिति सांख्याः । यथा- औत्सुक्यनिवृत्त्यर्थं प्रवर्तते लोकः (सां० का० ५८) ।
प्रवृतिनिराकरणस्य साध्यमाना निवृत्तिरिति कलञ्जाधिकरणे पूर्वमीमांसकाः।
प्रवृत्त्यभाव एव निवृतिरित्यन्ये ।
P
निवृत्तिमार्गः- अभ्युदयनिःश्रेयसकरौ द्वौ मार्गौ प्रवृत्तिमार्गः निवृत्तिमार्गश्च ।
प्रवृत्तिलक्षणो मार्गः धर्मः निवृत्तिलक्षणो मार्गः संन्यासः । लोकैषणा वित्तैषणा यश एषणा
एतत्त्रयत्यागरूपः सन्यासः । यथा- "इमौ द्वावेव पन्थानावनुनिष्क्रान्ततरौ भवतः
क्रियापथश्चैव पुरस्तात्संन्यासश्चोत्तरेण । निवृत्तिमार्गेणैषणात्रयस्य त्यागः । तयोः संन्यासपथ
एवातिरेचयति । न्यास एवात्यरेचयदिति च तैत्तिरीयके । द्वाविमावथ पन्थानौ यत्र वेदाः
प्रतिष्ठिताः। प्रवृत्तिलक्षणो धर्मो निवृत्तश्च विभावितः । इत्यादि पुत्राय विचार्य
PRA
निश्चितमुक्तं व्यासेन वेदाचार्येण भगवता (ई० उ० २ शा० भा० ) ।
-
निर्वेदः - वैराग्यम् । यथा- "निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च ( गी०
२।५२ शा० भा० ) । यथा च - निर्वेदेन फलेनान्तःकरणशुद्धिं ज्ञास्यसीत्यमिप्रायः
(तत्रैव म० सू० ) ।
--
-
निष्ठा - १. (क) स्वरूपेण स्थितिः । यथा - लोकेऽस्मिन् द्विविधा निष्ठा पुरा
प्रोक्ता मयाऽनघ । ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् (गी० ३।३ ) ।
J
(ख) सत्याऽभिसन्धिः । यथा - तन्निष्ठस्य मोक्षोपदेशादिति (ब्र० सू० १।१।७)।
इत्यत्र शाङ्करभाष्यम् – "सत्याऽभिसन्धस्य मोक्षोपदेश उपपद्यते । अन्यथा ह्यमुख्ये
सदात्मतत्त्वोपदेशे" अहमुक्थमस्मीति विद्यात्" (ऐ० आर० २१११२१६) इति-
वत्संपन्मात्रमिदमनित्यफलं स्यात् इत्यद्वैतवेदान्तिनः । २. क्तक्तवतू प्रत्ययौ निष्ठेति
वैयाकरणाः ।३.(क)विद्यमानत्वं वृत्तिश्च । यथा - अथवा हेतुमन्निष्ठविरहाप्रतियोगिना ।
साध्येन हेतोरैक्याधिकरण्यं व्याप्तिरुच्यते (भा० परि० ७०) । (ख) आधेयत्वम् । इति
न्यायविदः । 'श्रद्धा' अवधारणमिति च लौकिकाः ।