This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
निर्वाणम् - , निर्वाण
निरावरणं निर्वाणम् अज्ञानरूपावरणरहितं चैतन्यं मोक्ष इत्यर्थः ।

१. (क) मोक्षः । यथा - स्थित्वास्यां स्थितौ ब्राह्म्यां यथोक्तायामन्त-कालेऽन्ते वयस्यपि

ब्रह्मनिर्वाणं ब्रह्मनिवृत्तिं मोक्षमृच्छति, किमु वक्तव्यं ब्रह्मचयदिव संन्यस्य यावज्जीवं

यो ब्रह्मण्येवावतिष्ठते स ब्रह्मनिर्वाणमृच्छतीति (गी० २।७२ शा० भा०) । (ख)

स्वस्यात्मनः रूपे ब्रह्मणि अवस्थानं ब्रह्म रूपज्ञानम् (ब्र० सू० ४ । ४ । २२ भाम० ) ।

(ग) परलोकादिगमनागमनराहित्यम् । यथा - "निर्गतं वानं गमनं यस्मिन्प्राप्ये ब्रह्मणि

तन्निर्वाणम् (गी० २।७२ नी०) । (घ) जीवन्मुक्तस्वभावः । यथा - निर्गतं वानं गमनं

यस्मिन्नित्यर्थोऽपि तवाप्ययं शोकमोहाभिभूतत्वरूपः स्वभावो नोचितः किन्तु

जीवन्मुक्तस्वभाव एवेति" (तत्रैव भाष्यो०) । (ङ) ब्रह्मणि लयः । यथा - एनां

परमेश्वराराधनेन शुद्धान्तःकरणः पुमान् प्राप्य न विमुह्यति पुनः संसारमोहं न प्राप्नोति ।

यतः अन्तकाले मृत्युसमयेऽप्यस्यां क्षणमात्रमपि स्थित्वा ब्रह्मणि निर्वाणं लयम् ऋच्छति

प्राप्नोति (तत्रैव श्रीधरी) । (च) दुःखक्षयः । निर्गतं वानं दुःखं यत्रेति बौद्धाः । (छ)

अत्युर्ध्वलोकप्राप्तिरिति जैनाः ।
 
२५०
 
-
 

 
निर्विकल्पः - , निर्विकल्प
समाधिद्विविधः सविकल्पको निर्विकल्पकश्च । तत्र निर्विकल्पकः

यथा (क) अद्वितीये वस्तुनि (ब्रह्मणि) चित्तवृतेरेकाकारिता चित्त-वृत्तिः । यथा-

निर्विकल्पकस्तु ज्ञातृज्ञानादिविकल्पलयापेक्षयाद्वितीयवस्तुनि तदाकाराकारितायाश्चित्त-

वृत्तेरतितरामेकीभावेनावस्थानम् । तदा तु जलाकाराकारितलवणानवभासेन

जलमात्रावभासवदद्वितीयवस्त्वाकाराकारितचित्तवृत्त्यनवभासेनाद्वितीयवस्तुमात्रमवभासते ।

ततश्चास्य सुषुप्तेश्चाभेदशङ्का न भवति । उभयत्र वृत्त्यभाने समानेऽपि तत्सद्भावा-

सद्भावमात्रेणानयोर्मेदोपपत्तेः (वे० सा० ) । पातञ्जलयोगेऽयमेव असम्प्रज्ञातसमाधि-

रित्युच्यते । यथा - विरामप्रत्ययाभ्यासपूर्वं संस्कारशेषोऽन्यः (पा० यो० सू० १।१८) ।

अत्र व्यासभाष्यम्- सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः ।

अत्र बालरामोदासीनटिप्पण्याम्-मनसो वृत्तिशून्यस्य ब्रह्माकारतया स्थितिः । असम्प्रज्ञात-

नामासौ समाधिरभिधीयते ।
 
47100
 

 
निर्विकल्पकम्, निर्विकल्पक
प्रत्यक्षज्ञानं द्विविधम्, सविकल्पकं निर्विकल्पकं च । यथा – तच्च

प्रत्यक्षं द्विविधम् - सविकल्पकनिर्विकल्पकभेदात् । तत्र सविकल्पकं वैशिष्ट्यावगाहि-

ज्ञानम् । यथा घटमहं जानामीत्यादिज्ञानम् । निर्विकल्पकन्तु संसर्गानवगाहिज्ञानम् ।

यथा सोऽयं देवदत्तः, तत्त्वमसीत्यादिवाक्यजन्यं ज्ञानम् (वे० प० ८ प०) । यथा