This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
इति तत्त्वविदः सामगाने सर्वात्मता श्रुता । अत्रापि चक्रदृष्टान्तात्सोपाधिस्तत्त्व-

विच्छ्रुतः । अपूर्वानपराद्युक्त्या श्रोष्यते निरुपाधिकः । इति (गी० ५/२९ नी० क०) ।

 
निर्गुणः, निर्गुण
१. ब्रह्म ज्ञानरूपम् । ज्ञानाधिकरणं ज्ञानादिगुणवद् वा न । यथा -

"केवलस्यासंसृष्टस्यैव कल्पितचिदाभासाविवेकाप्रकाशकत्वमित्यर्थः" । (सं० शा०

३।१८३ सु० टी०) । यथा - निर्गुणो ज्ञानादिगुणवान् न भवति (ब्र० सू० १ । १४

वे० क० ) । २. ज्ञानाधिकरणमात्मा (त० सं०) इति न्यायवैशेषिकादयः ।
 
२४९
 
-
 
-
 

 
निर्जरः, निर्जर
१. जैनदर्शने निर्जरनामकः एकः पदार्थः । यथा - सप्त चैषां पदार्थाः

सम्मताः जीवाजीवाश्रवसंवरनिर्जरबन्धमोक्षा नाम (ब्र० सू० २ । २ । ३३ शा० भा०) ।

यथा च - सप्त चैषां पदार्थाः सम्मता इति । तत्र संक्षेपमाह - संक्षेपतस्तु द्वावेव

पदार्थाविति बोधात्मको जीवो जडवर्गस्त्वजीव इति ( तत्रैव भाम० ) । २. जरारहितः

निर्जरः देवः । यथा – अमरा निर्जरा देवाः (अ० को०) । ३. वार्धक्यरहितः सर्वोऽपीत्यन्ये ।
 
-
 

 
निर्णय:- , निर्णय
१. विमृश्य पक्षप्रतिपक्षाम्यामर्थावधारणम् । तदभावाप्रकारक-

मित्यर्थः । षोडश पदार्थेष्वन्यतमः एकः पदार्थः । यथा - प्रमाणप्रमेयप्रयोजनं इत्यादि

गौतमसूत्रम् (गौ० सू० १।१।१ ) । निर्णयस्तत्त्वज्ञानं प्रमाणानां फलम् (तत्रैव

वात्स्या० ) । २. अधिकरणाङ्गविशेष इति पूर्वोत्तरमीमांसकाः । तथाहि - विषयो

विशयश्चैव पूर्वपक्षस्तथोत्तरम् । निर्णयश्चेति पञ्चाङ्गं शास्त्रेऽधिकरणं स्मृतम् ।



३. यथार्थानुभवपर्याया प्रमितिर्निर्णयः ( स० द० सं०) । ४. सिद्धान्तसिद्धविचार्य-

वाक्यतात्पर्यावधारणमिति सांख्याः (सां० त० कौ०) ।
 
-
 
-
 

 
निर्ममः - , निर्ममः
मुख्यतः ब्रह्मविद् । यथा - "निर्ममो ममेति प्रत्ययवर्जितो निरहङ्कारो

निर्गताहं प्रत्ययः (गी०१२।१३ शा० भा०) । यथां च - अत एव तस्य निर्मम इति

विशेषणं युज्यते । मुख्यमक्षरविदो लक्षणं निरहङ्कार इति । अहङ्कारो हि सर्वानर्थनिदानं

स एव निर्गतो यस्मात्स निरहङ्कारः (तत्रैव नी० क०) यथा - निर्ममः देहेऽपि ममेति

प्रत्ययरहितः निरहङ्कारः वृत्तस्वाध्यायादिकृताहङ्कारान्निष्क्रान्तः द्वेषरागयोरप्रवर्त्तकत्वेन

समे दुःखसुखे यस्य सः (तत्रैव म० सू०) यथा - निर्ममो निरहङ्कारः ममेति प्रत्यय-

वर्जितः ममतास्पदानां गेहादीनां त्यागात् वृत्तस्वाध्यायकृतादहङ्कारप्रत्ययान्निर्गतः

(तत्रैव भाष्यो०) । यथा - "निर्ममो निरहङ्कारश्च" (तत्रैव श्रीधरी)" ।
 
-
 
-
 
-
 

 
निर्वर्त्यम् - , निर्वर्त्य
१. हेयम् = परित्याज्यम्, विनाश्यम् । यथा - ज्ञाननिर्वर्त्यमज्ञानम् ।

इत्यद्वैतिनः । २. क्रियया निष्पाद्यम् । निर्वर्त्यविकार्यादिकर्मभेदेष्वन्यतमः । यथा - कटं

वा घटं करोतीत्यादाविति वैयाकरणाः ।