This page has been fully proofread once and needs a second look.

२४८
 
शाङ्कुरवेदान्तकोशः
 
हि सर्वानर्थनिदानं स एव निर्गतो यस्मात् स निरहंकारः (तत्रैव नी० क० ) । यथा -

निरहंकारः वृत्तस्वाध्यायादिकृताहङ्काराम्निष्क्रान्तः द्वेषरागयोरप्रवर्त्तकत्वेन समे दुःखसुखे

यस्य सः" (तत्रैव म० सू०) । यथा- निर्ममो निरहंकारः ममेति प्रत्ययवर्जितः

ममतास्पदानां गेहादीनां त्यागात् वृत्तस्वाध्यायकृतादहङ्कारप्रत्ययान्निर्गतः । अत एव समे

द्वेषरागयोरप्रवर्त्तक सुखदुःखे यस्य (तत्रैव भाष्यो०) ।
 

 
निरिन्द्रियाः, निरिन्द्रिया
१ . अदायादाः स्त्रियः । यथा - तस्मात् स्त्रियोऽनिन्द्रिया अदायादा

इति वचनं तत्पूलकं च निरिन्द्रिया ह्यदायादाः स्त्रियो नित्यमिति स्थितिः (अ० ९ ।

१८) इति मनुवचनम् । अनिन्द्रियत्वं तु पुम्पारतन्त्र्यात् कथंचिदनुवादः ।

पराशरस्मृतिटीकायां विद्यारण्यश्रीचरणास्तु श्रुतिमेवैनामन्यथा व्याचख्युः । पाली-

वतग्रहे पल्या अंशो नास्तीत्यादायादपदस्यार्थः । तत्र हेतुरनिन्दियाइति । इन्द्रियं

वै सोमपीथ इति सोमेऽपीन्द्रियशब्दप्रयोगात् ततो निर्गत्य इति सोमपानामधिकृता

इति पालीव्रतग्रहप्रशंसेति । (वीरमित्रोदये दायभागे दुहितुरपुत्रेधनग्रहणाधिकारविचारे)।

२. प्रननशक्त्यभावः । यथा- दुग्धदोहा निरिन्द्रियाः (क० उ० १ । ३) अप्रजनन-

समर्था जीर्णा: (शा० भा० ) ।
 
-
 
..........
 

 
निरूपाख्यम् - , निरूपाख्य
१ . (क) उपाख्यारहितं तुच्छं वस्तु । यथा - असत्वं निरूपाख्यम्

(ब्र० सू० २।२।२२ वे० क०) । तच्च प्रमाणमात्राविषयोऽसत्पदार्थः । यथा

वन्ध्यापुत्रशशशृङ्गकूर्मरोमादि । इदमेवालीकं तुच्छमिति । (ख) ब्रह्म द्विविधं निरुपाधिकं

सोपाधिकं च । तत्र निरुपाधिकं ब्रह्म निरूपाख्यमित्युच्यते । यथा - सोपाधिर्निरुपाधिश्च

द्वैधा ब्रह्म समुच्यते । सोपाधिः स्यात् सर्वात्मना निरुपाख्योऽनुपाधिकः (गी० ५/२९

नी० क०) । (ग) अभावपदार्थ इत्यन्ये ।
 
-
 

 
निरुपाधिकम् - , निरुपाधिक
ब्रह्म द्विविधम् - निरुपाधिकं सोपाधिकं च तत्र सोपाधिकम्

ऐश्वरं रूपं जगदात्मकं विश्वरूपाख्यम् । अपरं च सर्वव्यापकं निरुपाधिकम् । यथा -

परस्य सोपाधिकं निरुपाधिकं च । चिद्रूपेण ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः । सोपाधि-

कमैश्वरं रूपमशेषजगदात्मकं विश्वरूपाख्यमधिकृत्याध्यायान्तरमवतारयन्नन्तर-

प्रश्नोपयोगित्वेन वृत्तं कीर्तयति- तत्र चेति (गी० ११११ आ० गि०) । यथा च -

"यथोक्तं वार्तिकसारे" सोपाधिर्निरुपाधिश्च द्वैधा ब्रह्म समुच्यते । सोपाधिः स्यात्सर्वात्मना

निरुपाख्योऽनुपाधिकः । जक्षन् क्रीडन् रतिं प्राप्य इति सोपाधिकस्य तु । छान्दोग्ये

सर्वकामाप्तिः सार्वात्यात्स्पष्टमीरिता । अहमन्नं तथान्नादः श्लोककार्यप्यहो अहम् ।
 
-