2023-03-12 05:01:10 by ambuda-bot
This page has not been fully proofread.
२४८
शाङ्कुरवेदान्तकोशः
हि सर्वानर्थनिदानं स एव निर्गतो यस्मात् स निरहंकारः (तत्रैव नी० क० ) । यथा -
निरहंकारः वृत्तस्वाध्यायादिकृताहङ्काराम्निष्क्रान्तः द्वेषरागयोरप्रवर्त्तकत्वेन समे दुःखसुखे
यस्य सः" (तत्रैव म० सू०) । यथा- निर्ममो निरहंकारः ममेति प्रत्ययवर्जितः
ममतास्पदानां गेहादीनां त्यागात् वृत्तस्वाध्यायकृतादहङ्कारप्रत्ययान्निर्गतः । अत एव समे
द्वेषरागयोरप्रवर्त्तक सुखदुःखे यस्य (तत्रैव भाष्यो०) ।
निरिन्द्रियाः– १ . अदायादाः स्त्रियः । यथा - तस्मात् स्त्रियोऽनिन्द्रिया अदायादा
इति वचनं तत्पूलकं च निरिन्द्रिया ह्यदायादाः स्त्रियो नित्यमिति स्थितिः (अ० ९ ।
१८) इति मनुवचनम् । अनिन्द्रियत्वं तु पुम्पारतन्त्र्यात् कथंचिदनुवादः ।
पराशरस्मृतिटीकायां विद्यारण्यश्रीचरणास्तु श्रुतिमेवैनामन्यथा व्याचख्युः । पाली-
वतग्रहे पल्या अंशो नास्तीत्यादायादपदस्यार्थः । तत्र हेतुरनिन्दियाइति । इन्द्रियं
वै सोमपीथ इति सोमेऽपीन्द्रियशब्दप्रयोगात् ततो निर्गत्य इति सोमपानामधिकृता
इति पालीव्रतग्रहप्रशंसेति । (वीरमित्रोदये दायभागे दुहितुरपुत्रेधनग्रहणाधिकारविचारे)।
२. प्रननशक्त्यभावः । यथा- दुग्धदोहा निरिन्द्रियाः (क० उ० १ । ३) अप्रजनन-
समर्था जीर्णा: (शा० भा० ) ।
-
..........
निरूपाख्यम् - १ . (क) उपाख्यारहितं तुच्छं वस्तु । यथा - असत्वं निरूपाख्यम्
(ब्र० सू० २।२।२२ वे० क०) । तच्च प्रमाणमात्राविषयोऽसत्पदार्थः । यथा
वन्ध्यापुत्रशशशृङ्गकूर्मरोमादि । इदमेवालीकं तुच्छमिति । (ख) ब्रह्म द्विविधं निरुपाधिकं
सोपाधिकं च । तत्र निरुपाधिकं ब्रह्म निरूपाख्यमित्युच्यते । यथा - सोपाधिर्निरुपाधिश्च
द्वैधा ब्रह्म समुच्यते । सोपाधिः स्यात् सर्वात्मना निरुपाख्योऽनुपाधिकः (गी० ५/२९
नी० क०) । (ग) अभावपदार्थ इत्यन्ये ।
-
निरुपाधिकम् - ब्रह्म द्विविधम् - निरुपाधिकं सोपाधिकं च तत्र सोपाधिकम्
ऐश्वरं रूपं जगदात्मकं विश्वरूपाख्यम् । अपरं च सर्वव्यापकं निरुपाधिकम् । यथा -
परस्य सोपाधिकं निरुपाधिकं च । चिद्रूपेण ध्येयत्वेन ज्ञेयत्वेन चोक्तमित्यर्थः । सोपाधि-
कमैश्वरं रूपमशेषजगदात्मकं विश्वरूपाख्यमधिकृत्याध्यायान्तरमवतारयन्नन्तर-
प्रश्नोपयोगित्वेन वृत्तं कीर्तयति- तत्र चेति (गी० ११११ आ० गि०) । यथा च -
"यथोक्तं वार्तिकसारे" सोपाधिर्निरुपाधिश्च द्वैधा ब्रह्म समुच्यते । सोपाधिः स्यात्सर्वात्मना
निरुपाख्योऽनुपाधिकः । जक्षन् क्रीडन् रतिं प्राप्य इति सोपाधिकस्य तु । छान्दोग्ये
सर्वकामाप्तिः सार्वात्यात्स्पष्टमीरिता । अहमन्नं तथान्नादः श्लोककार्यप्यहो अहम् ।