This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
नियमः - १. शौचतप आदि । यथा - शौचतपः सन्तोषस्वाध्यायेश्वरप्रणिधाना
नियमा एते प्रवृत्तिरूपा इत्यर्थः । एतत् प्रकरणीयप्रवर्त्तकशास्त्रवेद्या नियमाः इत्यर्थः
(सं० शा० श्लो० ८५ सुं० टी० ) । यथा च - अत्र श्रवणादयोऽपि स्वाध्यायेश्वर-
प्रणिधानयोरेवान्तर्भवन्तीति तेऽपि नियमा इत्यर्थः (तत्रैव अ० का० टी०) २. शौच-
संतोषादि । "शौचसन्तोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः (पा० यो० सू०
२ । ३२ ) । ३. तद्वदन्यावृत्तित्वं व्याप्तिः । यथा - कार्यकारणनियमः । ४. व्याप्यत्वम् ।
५. व्यापकत्वम् । ६. प्रत्यवायजनकीभूताभावप्रतियोगित्वमिति धर्मविदः । ७. प्रतिज्ञा-
स्वीकारो वा इत्यपरे ।
 
www
 
निरग्निः - नित्यसमाधिनिष्ठः । यथा - निर्गता अग्नयः कर्माङ्गभूता यस्मात्स
अनग्निसाधना अप्यविद्यमाना क्रियास्तपोदानादिका यस्य स नित्यसमाधिनिष्ठ
इत्यर्थः (गी० ६।१ भाष्यो०)।
 
10
 
२४७
 
-
 
निरन्वयत्वम्- भावानां निरन्वयः विनाशः न भवति । यथा- नहि भावानां
निरन्वयो निरूपाख्यो विनाशः सम्भवति, सर्वास्वप्यवस्थासु प्रत्यभिज्ञानबलेनान्वय्य-
विच्छेददर्शनात् अस्पष्टप्रत्यभिज्ञानास्वप्यवस्थासु क्वचिदृष्टे नान्वय्यविच्छेदे नान्यत्रापि
तदनुमानात् । तस्मात्परपरिकल्पितस्य निरोधद्वयस्यानुपपतिः (ब्र० सू० २।२।२२ ) ।
अत्र भामती - शक्यं तु तत्र वक्तुम् - "उदबिन्दौ च सिन्धौ च तोयभावो न विद्यते ।
विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ । तस्मान्न क्वचिदपि निरन्वयो
नाश इति सिद्धम् । अत्र वेदान्तकल्पतरुः - भाष्यगतनिरन्वयनिरूपाख्यत्वपदयोर्हेतु-
हेतुमद्भावमाह - यत इति । अपरिशिष्यमाणरूपत्वं निरन्वयत्वम् असत्वं
निरुपाख्यत्वम् ।
 
-
 
MANTIPICO
 
-
 
-
 
-
 
-
 
निरवयवम् – १ . पारमार्थिकं सर्वव्यापि । यथा- "इदं तु पारमार्थिकं कूटस्थनित्यं
व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं नित्यतृप्तं निरवयवं स्वयं ज्योतिः स्वभावम् (ब्र०
सू० १।१।४ शा० भा० ) । यथा - निरवयवमिति संस्कार्यकर्मताम् । ब्रीहीणां खलु
प्रोक्षणेन संस्काराख्योंऽशो यथा जन्यते, नैवं ब्रह्मणि कश्चिदंश: क्रियाधेयोऽस्ति
अनवयवत्वात् अनंशत्वादित्यर्थः (तत्रैव भा०) । २. अविनाशि नित्यमिति । यथा -
परमाणुगगनादीति केचन ।
 
ww
 
निरहङ्कारः - अहं भावरहितः ब्रह्मवित् । यथा - "निरहङ्कारो निर्गताहं प्रत्ययः
(गी० १२/१३ शा० भा०) । यथा - मुख्यमक्षरविदो लक्षणं निरहङ्कार इति । अहङ्कारो
 
-