2023-03-24 08:56:37 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्करवेदान्तकोशः
(तत्रैव शा० भा०) । यथा-च - विजातीयप्रत्ययतिरस्कारेण तैलधारावंदविच्छिन्नसमान-
प्रत्ययप्रवाहेण निदिध्यासनसंज्ञकेन ध्यानेन विषयीकुर्वन्तीत्यर्थः (गी० १२/३ म०
सू० ) । यथा च - एतादृशम् अक्षरं ये पर्युपासते परिसमन्तादुपासते श्रवणमननाभ्यां
उपास्यस्यार्थस्य विषयीकरणेन सामीप्यमुपगम्यानवच्छिन्नतैलधारावत्समानप्रत्ययप्रवाहेन
दीर्घकालमासनं निदिध्यासनं कुर्वन्तीत्यर्थः (तत्रैव भाष्यो०) । यथा च ताभ्यां
निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् । एकतानत्वमेतद्धि निदिध्यासनमुच्यते
(प० द० १।५४) । यथा च - आत्मा वारे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यश्च
(बृ० उ० २।४।४) । निरन्तरं विचारो यः श्रुतार्थस्य गुरोर्मुखात् तन्निदिध्यासनं प्रोक्तं
तच्चैकाग्रेण लभ्यत इति चेतसः एकतानत्वमेव निदिध्यासनमित्यद्वैतवेदान्तिनः ।
ब्रह्मैवास्मीति सद्वृत्त्या निरालम्बतया स्थितिः ध्यानशब्देन विख्याता परमानन्ददायिनी ।
weiaayaay S
इत्यद्वैत-वेदान्तिनः ।यथा च - रागोपहतिर्ध्यानम् (सां० सू० ३ । ३०) । चित्तैकाग्रताध्यानमेव
निदिध्यासनमिति योगविदः । एवमेव जैनदर्शनेऽपि ।
200
निधानम्
१ . (क) आश्रयः । यथा – "त्वमस्य विश्वस्य समस्तस्य जगतः
album protesoper op PERIFE
परं प्रकृष्टं निधानं निधीयतेऽस्मिन्निति निधानं पर आश्रय इत्यर्थः (गी० ११/१८
शा० भा०) । यथा च - त्वमेवास्य विश्वस्य परं प्रकृष्टं निधीयतेऽस्मिन्निति निधानमाश्रयः
(तत्रैव म० सू० १) । (ख) दैवं शङ्खपद्मादिनिधिर्वा । यथा - निधीयते निक्षिप्यते
कालान्तरोपभोम्यं प्राणिनां कर्मफलमस्मिन्निति निधानं शंखपद्मादिनिधिर्वा"
www myname after
(गी० ९/१९ भाष्यो०)।
15TOCAD
जा
निमित्तम्
१. समवाय्यसमवायिभिन्नं कारणं निमित्तकारणम् । एतदुभयभिन्नं
कारणं निमित्तकारणम् । यथा- तुरीवेमादि (त० सं० १ ख० ) । इति न्यायादिविदः ।
२. अपरिणामित्वे सति यत्कारणं तन्निमित्तकारणमिति मध्ववेदान्तिनः । निमित्त-
कारणम्- निमित्तशब्दवत् ।
-
नियतत्वम् -
नियतत्वम्, नियतत्व
१. व्यापकत्वम् । यथा - नित्यसमानाधिकरण्यम्, व्याप्तिरित्यादौ
बर्धूमव्यापकत्वम् (त० सं० न्या० बो०) । २. कारणत्वम् । अन्यथासिद्धिशून्यस्य
नियता: पूर्ववर्तिता कारणत्वं भवेत्तस्य । ३. ध्वंसाप्रतियोगित्वम् (त० सं० दी०) ।
४. नित्यनम् । यदकरणे प्रत्यवायः । इति धर्मशास्त्रविदः । ५. निश्चितत्वम् ।
इत्यपरें ।