This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
२४५
 
च - आकाशादावस्त्यर्वाचीनापेक्षया चिरकालवृत्तित्वाद् व्यावहारिकी नित्यता ।

प्रत्यङ्मात्रे लंक्ष्येऽविनाशित्वलक्षणापारमार्थिकी (सं० शा० १/१८१ सु० टी०) ।

२. उत्पत्तिविनाशशून्यं वस्तु । प्राग्भावप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वम्

उत्पत्तिविनाशशून्यत्वम् । अत्र ध्वंसेऽतिव्याप्तिवारणाय सत्यन्तम्, प्रागभावेऽ-

तिव्याप्तिवारणाय विशेष्यदलस्य निवेशः । यथा - ईश्वरस्य परमाण्वाकाशादीनाञ्च

नित्यत्वम् इति न्यायवैशेषिकविदः ।
 
-
 
B
 
-
 
-
 

 
नित्यतृप्तः - , नित्यतृप्त
कूटस्थनित्यम् । यथा- "इदं तु पारमार्थिकं, कूटस्थनित्यं

व्योमवत्सर्वव्यापि, सर्वविक्रियारहितं नित्यतृप्तं निरवयवं, स्वयं ज्योतिः स्वभावम्"

(ब्र० सू० १/१/४ शा० भा० ) । यथा - तृप्त्यां दुःखरहितं सुखमुपलक्षयति ।

क्षुदुःखनिवृत्तिसहितं हि सुखं तृप्तिः (तत्रैव भाम० ) ।
 
-
 

 
निद्रा - , निद्रा
इन्द्रियोपरतिर्निद्रेत्यद्वैतवेदान्तिनः । अभावप्रत्ययालम्बना वृत्तिर्निद्रेति

योगविदः ।
 

 
निदिध्यासनम् - , निदिध्यासन
आत्मविषयकस्थैर्यानुकूलो मानसो व्यापारः । यथा- निदिध्यासनं

नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणचित्तस्य विषयेभ्योऽपकृष्यात्मविषयक-

स्थैर्यानुकूलो मानसो व्यापारः । तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात् कारणम् ।

ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढ़ाम् (श्वे० १-३) इत्यादिश्रुतेः ।

निदिध्यासने च मननं हेतुः, अकृतमननस्यार्थदार्याभावेन तद्विषये निदिध्यासना-

योगात् । मनने च श्रवणं हेतुः श्रवणाभावे तात्पर्यानिश्चयेन शाब्दज्ञानाभावेन श्रुतार्थ-

विषयकयुक्तत्वायुक्तत्वनिश्चयानुकूलमननायोगात् । एतानि त्रीण्यपि ज्ञानोपतौ

कारणानीति केचिदाचार्या ऊचिरे । अपरे तु श्रवणं प्रधानम्, मनननिदिध्यासन-

योस्तु श्रवणात्पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया आरादुपकारकाङ्गत्व-

मित्याहुः । तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम् । यस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य

प्रकृते श्रुत्याद्यन्यतमाभावेऽसम्भवात् (वे० प० ८ प० ) । यथा च - विजातीय-

देहादिप्रत्ययरहिताद्वितीयवस्तुसजातीयप्रत्ययप्रवाहो निदिध्यासनम् (वे० सा०) । यथा

च- विधेयनिदिध्यासनावगमकाले विधेयावृत्त्यवगमस्य ब्रह्मात्मैक्यविषयत्व-

स्यापि सद्भावात् (ब्र० सू० १/१/४ वे० क० त० परि०) । यथा च - यत्पुनरुक्तं

श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद् विधिशेषत्वं ब्रह्मणो न स्वरूपपर्यवसायि-

त्वमिति । न, अवगत्यर्थत्वान्मनननिदिध्यासनयोः । यदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत
 
-
 
-