This page has not been fully proofread.

२४४
 
शाङ्कुरवेदान्तकोशः
 
पुर्यां कटे वेदे वणिकूपये (विश्वकोशः) । पुरभेदे वाणिजे कटभेदे वणिकूपथे हट्टे
(मेदिनीकोशः) ३. वेदः । यथा आद्यं नैघण्दुकं वाक्यं द्वितीयं नैगमं तथा
(ऋगनुक्रमणिकायाम्) । तथापि च निगमे भवति ( यास्कनिरुक्ते) । यथा च-
निगमशब्दो वेदवाची यास्केन तत्र तत्रापि निगमे भवति इत्येवं वेदवाक्यानाम-
वतारित्वात् । तस्मिन् निगम एव प्रायेण वर्तमानानां शब्दानां चतुर्थाध्यायरूपे
द्वितीयस्मिन् काण्डे उपदिष्टंत्वात् तस्य काण्डस्य नैगमत्वम् (ऋग्वेदभाष्ये सायणः) ।
यथा च निगमकल्पतरोर्गलितं फलं शुकमुखादमृतद्रवसंयुतम् । पिबत भागवतं
रसमालयं मुहुरहो रसिका भुवि भावुका: (भागवते १ । १ । ३ ) । यथा च - कुशा
वानस्पत्याः स्थ ता मा पाते इत्येतस्मिन् निगमे (ब्र० सू० ३।३।२६ शा० भाष्ये) ।
यथा च – निखिलनिगमान्तस्तुतिपदे (सौन्दर्यलहर्याम्- १००) । ४. आगमः । यथा
वेदन्तपरिभाषायां शब्दप्रामाण्याय वेदप्रामाण्याय वा आगमपरिच्छेदः । अद्वैतसिद्धौ
वेदवाक्यबाधोद्धाराय – आगमबाधोद्धारप्रकरणम् । क्वचिद् निगमागमशब्दौ समानार्थकौ
क्वचिच्च विभिन्नार्थकौ ।
 
-
 
-
 
.
 
नित्यम् - १ (क) अनादिनिधनं चैतन्यम् । यथा- यत्किल स्वाभाविकं
तन्नित्यं यथा चैतन्यम्, स्वाभाविकं चेदं तस्मान्नित्यम् । परे हि नित्यताद्वयीमाहुः
कूटस्थनित्यतां परिणामिनित्यतां च । तत्र नित्यमित्युक्ते माभूदस्य परिणामिनित्यतेत्यत
 
-
 
-
 
आह - तत्र किञ्चिदिति । परिणामिनित्यता हि न परमार्थिकी । तथाहि - सर्वात्मना
वा परिणम एकदेशेन वा । सर्वात्मना परिणामे कथं न तत्त्वव्याहतिः । एकदेशपरिणामे
वा स एकदेशस्ततो भिन्नोऽभिन्नो वा । भिन्नश्चेत् कथं तस्य परिणामः । न हि
अन्यस्मिन् परिणममानेऽन्यः परिणमतेऽतिप्रसङ्गात् । अभेदे वा कयं न सर्वात्मना
परिणामः । भिन्नाभिन्नं तदिति चेत्, तथाहि तदेव कारणात्मना- अभिन्नं भिन्नं च
कार्यात्मना । कटकादयः स्वाभिन्ना हाटकात्मना भिन्नाश्च कटकाद्यात्मना । न च
भेदाभेदयोर्विरोधान्नैकत्र समवाय इति युक्तम्, विरुद्धमिति । नः क्व सम्प्रत्ययो यत्प्रमाण-
विपर्ययेण वर्तते । ..... यथाहुः कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथा
भेदः कुण्डलाद्यात्मना भिदा .....तथा च श्रुतिः मृत्तिकेत्येव सत्यमिति । तस्मात् कूटस्थ-
नित्यतैव पारमार्थिकी न परिणामनित्यतेति सिद्धम् (ब्र० सू० १।१।४ भाम० ) ।
(ख) सर्वव्यापकम् । यथा - "नित्यं सर्वदा विद्यमानम् ....नित्यं सर्वव्यापकम्" (गी०
२।२१ म० सू०) । यथा च - नित्यं सर्वदा विद्यमानम् । प्रागविद्यमानस्य हि जन्म
दृष्टं न तु सर्वदा सत्यस्येत्यभिप्रायः । ..... नित्यं सर्वव्यापकम् (तत्रैव भाष्ये०) । यथा
 
-