This page has been fully proofread once and needs a second look.

शाङ्कवेदान्तकोशः
 
२४३
 
केवलया मायया द्वितीयं मायाविनं स्वसदृशमेव सूत्रमार्गेण गगनमारोहन्तं सृजति,

एवमहं कूटस्थ चिन्मात्रोऽग्राह्यः स्वमायया चिन्मयमात्मनः शरीरं सृजामि

तस्य बाल्याद्यवस्थाश्च सूत्रारोहणवद्दर्शयामि । एतावांस्तु विशेषः लौकिकमायावी

मायामुपसंहरन् द्वितीयं मायाविनमप्युपसंहरति । अहं तु तामनुपसंहरन् स्वविग्रहमपि

नोपसंहरामीति ।
 

एवं हि सति हिरण्यश्मश्रुत्वादिलक्षणविग्रहयोगिनश्चैतन्यस्य "अन्तस्तद्धर्मो-

देशात्" इत्यादिन्यायसिद्धं वियदाधुपादानत्वलक्षणं सर्वेश्वरत्वं युज्यते नान्यथेति ।

तस्मात् सिद्धं परमेश्वरस्य मायामयं शरीरं नित्यमिति एकेनैव देहेन विवस्वन्तमुपदिश्य-

त्वामुपदिशामीति (गी० ४।६ नी० क०) । (ख) जलशायी विष्णुः । यथा - "आपो

नारा इति प्रोक्ता आपो वै. नरसूनवः अयनं यस्य ताः पूर्वं तेन नारायणः स्मृतः ।

इति स्मृतिसिद्धः स्थूलदृशां नारायणशब्दार्थः (तत्रैव उपोद्घाते) । (ग) चराचरात्मक

सर्वशरीरान्तर्यामी । यथा - सूक्ष्मदर्शिनः पुनराचक्षते - नरशब्देन चराचरात्मकं

शरीरजातमुच्यते । तत्र नित्यसन्निहिताश्चिदाभासजीवा नारा इति निरुच्यते तेषा-

मयनमाश्रयो नियामकोऽन्तर्यामी नारायण इति (तत्रैव मं० श्लो० १ उपो०)।
 
-
 

(घ) परं ब्रह्म । यथा - अत्र च नारायणशब्देनाभिधेयमुक्तम्- नरा एव नारा जीवास्त्वं

पदवाच्यास्तेषामयनमधिष्ठानं तत्पदवाच्यं परं ब्रह्म (तत्रैव मं० श्लो० १ उपो०)।
 
-
 
Se
 

 
नास्तिकः - , नास्तिक
१. नास्ति परलोके दृष्टिर्यस्य सः । अस्ति नास्ति दृष्टं मतिः

(पा० सू० ४/४/६०) इति सूत्रेण ठञ् प्रत्यये नास्तिक इति पदं सिद्ध्यति । यो

हि स्वर्गनरकपरलोकादिकं न मनुते । यथा चार्वाक्बृहस्पतिप्रभृतयः । २. नास्तिको

वेदनिन्दकः। यथा – "नास्तिक्यं वेदनिन्दां च देवतानाञ्च कुत्सनम् (म० स्मृ०

४।१६३) । वेदनिन्दकः नास्तिकः षड्विधः - चार्वाक: माध्यमिकयोगाचार-

सौत्रान्तिकवैभाषिकरूपाश् चत्वारो बौद्धाः आर्हताश्च । तत्र देहात्मवादी चार्वाकः

सर्वशून्यवादी माध्यमिकः आन्तरार्थवादी योगाचारः बाह्यार्थानुमेयवादी सौत्रान्तिकः

आन्तरबाह्यार्योभयवादी वैभाषिकः पुद्गलवादी जैनश्च ।
 
-
 

 
निगमः - , निगम
नितरां गच्छन्त्यत्रेति - गोचरसंचर इत्यादि (पा० ३/३/११९)

सूत्रनिपातितो निगमशब्दः । १. निश्चयः । न्यायशास्त्रे अनुमाने पञ्चावयववाक्ये

एकं निगमनम्, यथा – हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् । यथा -

तत्र तथेति निगमनम् (तं० सं० २ ख०) । २. कटादिः । यथा - निगमो वाणिजे
 
-