This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
नारायणः - १. (क) नराणां समूहः नारः स अयनम् स्थानमस्य असौ
नारायणः । अथवा नारस्य अयनम् एव नारायणः पुरुषः । पुंस्त्वं तु श्रौतवात् ।
जीवसमष्टिस्थानं हिरण्यगर्भः न तु परमेश्वरः । यथा - देहान्निकृष्टस्याजत्वाऽव्ययत्वे
"नन्वेवाहं जातु नासमि"त्यत्र साधिते, इह तु देहाविशिष्टस्यैव ते उच्येते । ईश्वरोऽपी-
त्यनेन देहनिष्कृष्टस्यास्मदादेरपीश्वरत्वं "तत्त्वमसि" "अहं ब्रह्मास्मि" इत्यादिश्रुति-
प्रसिद्धमतो देहविशिष्टस्यैवाजत्वनित्यत्वे दृढ़ीक्रियेतेऽन्यथानीश्वरत्वप्रसङ्गात् । न
ह्यादित्यान्तर्यामिणः परमेश्वरस्य हिरण्यश्मश्रुत्वादिविशिष्टो देहो जन्मव्ययवानिति
वक्तुं शक्यम् । अकर्मजत्वात् । कर्मफलस्य हि पराकाष्ठा हिरण्यगर्भशरीरप्राप्तिः । न
च पुरुषो ह वै नारायणोऽकामयत अत्र तिष्ठेयं सर्वाणि भूतानि अहमेवेदं सर्वं स्यामिति
स एवं पुरुषमेधं पञ्चरात्रं यज्ञं कर्तुमपश्यत्" इत्यादिना शतपथे नारायणाख्यस्य
परमात्मनः "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । स भूमिं सर्वतः स्पृत्वा-
त्यतिष्ठद्दशाङ्गुलम्" । इति "पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतन्दिवि" इति च
पुरुषसूक्तप्रतिपाद्यस्य सर्वाणि भूतान्यतिक्रम्य स्थितस्येश्वरस्यापि शरीरं पाञ्चरात्राख्य-
कर्मविशेषफलमिति श्रूयत इति वाच्यम् । तत्र नारायणशब्देन हिरण्यगर्भस्यैव विवक्षितत्वात् ।
न हि परमेश्वरस्य पूर्णकामस्य सर्वानतिक्रम्य स्थितस्य पुनरत्यतिष्ठेयं सर्वाणि भूतानीति
कामना भवति । ननु परमेश्वरेऽपि कामना दृष्टा "सोऽकामयत बहुस्यां प्रजायेय"
इतीति चेच्छ्लाघनीयप्रज्ञो देवानां प्रियः यत आप्तकामस्य का स्पृहा इति श्रुतेः "लोकवत्
तु लीलाकैवल्यम्" इति न्यायाच्च निःस्पृहस्य लीलयैव ब्रह्माण्डकोटीः सृजतो भगवतो
राजगोपालस्य कर्म किङ्करेण कर्मणा सार्वात्यं प्रार्थयता साम्यमापादयति । तस्मान्न
कर्मफलं भगवतः शरीरम् । अत एव न भौतिकम् । विराट्सूत्रात्मातिरिक्तस्य भौतिक-
स्याभावात् । तस्माद्युक्तमजोऽपि सन्निति । ननु तर्हि भगवच्छरीरस्य किमुपादानम् ।
अविद्येति चेत्, न । परमेश्वरे तदभावात् । जीवाविद्या चेत्, न । शुक्तिरजतादेरिव
तुच्छत्वापत्तेः । चिन्मात्रं चेत्, न । चितः साकारत्वायोगात् । तथात्वे वा तस्यातीन्द्रि-
यत्वापत्तिः। तस्मात्किमालम्बो भगवद्देहो देवकीगर्भप्रवेशजननबाल्यकौमारपौगण्ड-
यौवनादिप्रतीतिविषय इति चेच्छृणु । प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममाययेति ।
अयमर्थः– जीवात्मनो ह्यनात्मनः प्रकृतिं तेजोबन्नात्मिकां पञ्चभूतात्मिकां वाधिष्ठाय
सम्भवन्ति जन्मादींल्लभन्ते, अहं तु स्वां प्रत्यगनन्यां प्रकृतिं प्रत्यक्चैतन्यमेवेत्यर्थः ।
तदेवाधिष्ठाय न तूपादानान्तरम् । आत्ममायया स्वीयमायया सम्भवामि । यथा
कश्चिन्मायावी स्वयं स्वस्थानादच्युतस्वभावोऽप्यदृश्यो भूत्वा स्थूलसूक्ष्मभूतान्यनुपादायैव
 
२४२