This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
२४१
 
C
 
-
 
षष्ठः प्राणस्तेनैव तप्रवर्त्यानां कर्मेन्द्रियाणां सङ्ग्रहः । बुद्ध्यहङ्कारचित्तानीति नव ।

एतानि द्वाराणीव पुरपतेर्जीवस्य भोगार्थं विषयप्रवेशस्थानानि यस्मिन्नवद्वारे शरीराख्ये

पुरे विचित्रवासनाकल्पितानन्दविषयवति अनेकैः कर्मसचिवैरधिष्ठिते सुखदुःखादि-

नानापण्यवति मनसा सर्वद्वारोद्घाटनकुञ्जिकया सह सर्वाणि कर्माणि पुरपतिरिव

राजकार्याणि संन्यस्य सुखं निर्विकल्पसंविन्मात्ररूपेणास्ते (तत्रैव नी० क० ) । यथा -

"नवेति । देहसम्बन्धाभिमानाभासवत्त्वमाह - देहीति । मनसा सर्वकर्मसंन्यासेऽपि

लोकसंग्रहार्थं बहिः सर्वं कर्म कर्त्तव्यमिति प्राप्तं प्रत्याह - नवेति । तान्येव सर्वाणि

कर्माणि परित्याज्यानि विशिनष्टि - नित्यमिति । तेषां परित्यागे हेतुमाह- तानीति ।

यदुक्तं सुखमास्त इति तदुपपादयति- त्यक्तेति । जितेन्द्रियत्वं कायवशीकारस्याप्युप-

लक्षणम्, द्वे श्रोत्रे 'द्वे चक्षुषी, द्वे नासिके, वागेकेति सप्तशीर्षाण्यानि शिरोगतानि

शब्दाधुपलब्धिद्वाराणि । अथापि कथं नवद्वारत्वमधोगताभ्यां पायूपस्थाभ्यां

सहेत्याह – अर्वागिति । शरीरस्य पुरसाम्यं स्वामिना पौरैश्चाधिष्ठितत्वेन दर्शयति

आत्मेत्यादिना । यद्यपि देहे जीवनत्वाद्देहसम्बन्धामिधानाभासवानवतिष्ठते तथापि

प्रवासीव परगेहे तत्पूजापरिभवादिभिरप्रहृष्यन्न् व्यामोहादिरहितश्च तिष्ठति

(तत्रैव आ० गि० ) ।
 
L
 
-
 

 
नान्तरीयकत्वम् - , नान्तरीयकत्व
न अन्तरा विना नान्तरा ततो भवार्थे छ प्रत्ययः अव्ययानां

भमात्रे टिलोपः ततः स्वार्थे क प्रत्ययः नान्तरीयकमिति ततो भावार्थे त्वलिति

नान्तरीयकत्वम् । १. व्याप्तिः (का० प्र० २।११) । २. तद्भावे तद्रूपा व्याप्तिः ।

३. तत्सत्तानियतसत्ताकत्वम् । यथा - आम्रफले बीजसत्ता, मत्स्यादौ कण्टकादि

च । ४. मध्ये अवश्यं भावित्वम् ।
 
-
 

 
नाभिः - , नाभि
केचन नाभिः प्राणस्तथेन्द्रियमिति मन्यन्ते । तच्च न समीचीनम् । नाभिः

गात्रावयवः । यथा - नव वै पुरुषे प्राणा नाभिर्दशमी इत्यत्रापि देहच्छिद्रभेदाभि-

प्रायेणैव दश प्राणा' उच्यन्ते, न प्राणतत्त्वभेदाभिप्रायेण; नाभिर्दशमीति वचनात् ।

नहि नाभिर्नाम कश्चिप्राणः प्रसिद्धोऽस्ति । मुख्यस्य तु प्राणस्य भवति नाभिरप्येकं

विशेषायतनमित्यतो नाभिर्दशमीत्युच्यते । क्वचिदुपासनार्थं कतिचिप्राणा गण्यन्ते

क्वचिप्रदर्शनार्थम् । तदे॒वं विचित्रे प्राणेयत्ताम्नाने सति क्व किंपरमाम्नानमिति

विवेक्तव्यम् । कार्यजातवशात्त्वेकादशत्वाम्नानं प्राणविषयं प्रमाणमिति स्थितम्

(ब्र० सू० २/४/६ शा० भा० ) ।