This page has not been fully proofread.

२४०
 
शाङ्करवेदान्तकोशः
 
आत्मनि बुद्धिवृत्तौ आत्मानं परमेश्वरं पश्यन्ति ते ध्यायिनः (तत्रैव नी० क०) । यथा -
ध्यानेन विजातीयप्रत्ययानन्तरितेन सजातीयप्रत्ययप्रवाहेन श्रवणमननफलभूतेनात्म-
चिन्तनेन निदिध्यासनशब्दोदितेन आत्मनि बुद्धौ पश्यन्ति साक्षात्कुर्वन्ति (तत्रैव म०
सू०) । केचिदुत्तमाधिकारिणो योगिनः । एतज्जन्मनि जन्मान्तरे वा कृताभ्यां श्रवण-
मननाभ्यामसम्भावनादिदोषनिर्मुक्ताः शब्दादिंविषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य
मनश्च प्रत्यगात्मन्येकाग्रं विधाय तैलधारावत् सतताविच्छिन्नप्रत्ययेन निदिध्यासना-
परपर्यायेण ध्यानेनात्मनि बुद्धौ आत्मानं प्रत्यक्चेतनमात्मना ध्यानसंस्कृतेनान्तःकरणेन
पश्यन्ति साक्षात् कुर्वन्ति (तत्रैव भाष्यो०) । ध्यानेन आत्माकारप्रत्ययावृत्त्या (तत्रैव
श्रीधरी) इत्यद्वैतवेदान्तिनः । २. तत्र प्रत्ययैकतानताध्यानम् (पा० यो० ३ । २) । तस्मिन्
देशे ध्येयाऽवलम्बनस्य प्रत्ययस्य विसदृशप्रत्ययप्रहाणेन प्रवाहो ध्यानमित्यर्थः ।उक्तञ्च-
तद्रूपप्रत्ययैकाग्र्या सन्ततिश्चान्यनिःस्पृहा । तद्धयानं प्रथमैरङ्गैः षड्भिर्निष्पाद्यते यथा ।
इति योगशास्त्रविदः । ३. चिन्तनम् । यथा - लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् ।
ध्येयः सदा सवितृमण्डलंमध्यवर्ती.... इति पौराणिकाः काव्यविदश्च ।
 
-
 
.
 
ध्रुवः - १ (क) अव्यभिचारी । यथा - जातस्य हि लब्धजन्मनोः ध्रुवोऽव्यभिचारी
मृत्युर्मरणं ध्रुवं जन्म मृतस्य च तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽर्थस्तस्मिन्न-
परिहार्येऽर्थे न त्वं शोचितुमर्हसि (गी० २।२७ शा० भा०) । (ख) अविकारि । यथा -
ध्रुवमित्यविकारित्वमुच्यते (सं० शा० ३ । २९२ सु० टी०) । एतावत्युक्तेऽपि महत्त्वात्परम-
व्यक्तमव्याकृताख्यं प्राप्तं तदर्थमाह - ध्रुवमिति । (ग) नित्या । यथा - स एष संवत्सरः
प्रजापतिः षोडशकलस्तस्य रात्रय एव पञ्चदशकला ध्रुवैवास्य षोडशी कला
रात्रिभिरेवांस्य च पूर्यतेऽप एव च क्षीयते सोऽमावस्या ॐ रात्रिमेतया षोडशकलया
सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते । तस्मादेता & रात्रिं.... प्राणभृतः प्राणेन
:
विच्छिन्द्यादपि च कृकलासस्यैतस्या एव देवताया अपचित्यै (बृ० उ० १/५/१४)
ध्रुवा नित्येत्यर्थः (तत्रैव शा० भा० ) ।
 
नवद्वारम् - नवद्वारं पुरं शरीरमिति । यथा - नवद्वारे पुरे सप्तशीर्षाण्यान्यात्मन
उपलब्धिद्वाराण्यर्वाग्द्वे मूत्रपुरीषविसर्गार्थे तैद्धरिर्नवद्वारं पुरमुच्यते शरीरं पुरमिव
पुरमात्मैकस्वामिकं तदर्थप्रयोजनैश्चेन्द्रियमनोबुद्धिविषयैरनेकफलविज्ञानस्योत्पादकैः
पौरैरिवाधिष्ठितं तस्मिन्नवद्वारे पुरे देही सर्वं कर्म सन्यस्यास्ते (गी० ५/१३
शा० भा०) । यथा - समाधिस्थो योगी नवद्वारे नवैव पञ्चज्ञानेन्द्रियाणि