This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
२३९
 
वा (तत्रैव म० सू० ) । यथा- परं धाम परं तेजः सूर्यादितेजसामपि तेजः (तत्रैव

भाष्यो०) । २. स्थानम् । ३. तीर्थस्थानविशेषः । यथा श्रीजगन्नाथधाम इति ।
 
-
 
-
 

 
धीर्गुणाः - , धीर्गुण
बुद्धेः शुश्रूषादयोऽष्टौ गुणाः । यथा- शुश्रूषा श्रवणं चैव

ग्रहणं धारणं तथा । ऊहापोहोत्थविज्ञानं तत्त्वज्ञानं च धीगुणाः (सं० शा० १०

सु० टी० ) ।
 
-
 
-
 

 
धीरः, धीर
धीमान् । आत्मज्ञः । यथा - धीमान् आत्मवित् नह्येवंविधस्यात्मविदः

शोकोपपत्तिः (का० उ०- २ शा० भा० ) ।
 
-
 

 
धूमः - , धूम
१. प्रेत्य परलोकं प्राप्तुरात्मनः एकः मार्गविशेषः । प्रितृयानज्योति-

र्मार्गादिवत् । दक्षिणायनादिकालविशेषे प्रेताः जीवविशेषाः धूममार्गेण प्रयान्ति ।
 
-
 

यथा - अथैतमेवाध्वानं पुनर्निवर्तते यथेतमाकाशमाकाशाद् वायुं वायुर्भूत्वा धूमो

भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति (छा० उ०

५/१०/५) (ब्र० सू० ३ । १ । २२ शा० भा० ) ।
 

 
धृतिः, धृति
अवसन्नदेहेन्द्रियधारणसाधनम् । यथा- धृतिर्ययावसादप्राप्तानि

देहेन्द्रियाणि ध्रियन्ते सा च ज्ञेयत्वात् क्षेत्रम् (गी० १३/६ शा० भा० ) यथा - धृतिरव-

सन्नानां देहेन्द्रियाणामवष्टम्भहेतुः प्रयत्नः (तत्रैव म० सू०) ।
 
-
 

 
ध्यानम्, ध्यान
१ . (क) चित्तवृत्तेः समानरूपेण प्रवाहः । यथा - ध्यायत्यर्थ एव यत्

समानप्रत्ययप्रवाहकरणम् । ध्यायतिश्च प्रशिथिलाङ्गचेष्टेषु प्रतिष्ठितदृष्टिष्वेक-

विषयाक्षिप्तचित्तेषूपचर्यमाणो दृश्यते ध्यायति वको ध्यायति प्रोषित बन्धुरिति (ब्र०

सू० ४।१।८ शा० भा०) (ख) चिन्तनम् । यथा - ध्यानं चिन्तनं यद्यपि मानसं

तथापि पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यं पुरुषतन्त्रत्वात् (तत्रैव १ । १ ।४ शा०

भा० ) यथा च - ध्यानं नाम शब्दादिभ्यो विषयेभ्यः श्रोत्रादीनि करणानि मनस्युपसंहृत्य

मनश्च प्रत्यक् चेतयितयैकाग्रतया यच्चिन्तनं तद्ध्यानम् (गी० १३।२४ शा० भा०) ।

यथा च - अत्र ये आत्मानं विविदिषन्ति ते निष्कामकर्मणा परमेश्वरमाराधयन्ति

ते कर्मयोगिनः । तत एवोत्पन्नविविदिषा वेदान्तश्रवणे प्रवर्तन्ते । ततः प्रमाण-

गतासम्भावनानिवृत्तौ सत्यां तस्यैवार्थस्य मनने प्रवर्तते । प्रमेयगतासम्भावना-

निवृत्त्यर्थं ते सांख्याः । ततः प्रमाणप्रमेयगतासम्भावनाया निवृत्त्यनन्तरं आत्मनि

देहादावात्मबुद्धिरूपाया विपरीतभावनाया निवृत्त्यर्थं निदिध्यासनं विजातीयप्रत्यय-

तिरस्कारपूर्वकसजातीयप्रत्ययप्रवाहीकरणलक्षणं कर्तुं प्रवर्त्तन्ते । ततः तत्परिपाके