This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
धर्मस्कन्थाः (त्रयः), धर्मस्कन्थ (त्रि)
१ . यज्ञः अध्ययनम् दानम् । २. तपः । ३. ब्रह्मचर्याचार्य-

कुलवासः । यथा – त्रयो धर्मस्कन्धाः (छा० उ० २।२३।१ ) ये चेमेऽरण्ये श्रद्धा तप

इत्युपासते (छा० उ० ५।१०।१) तपः श्रद्धे ये ह्युपवसन्त्यरण्ये (मु० उ० १ ।२।११)।

एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति (वृ० उ० ४ । ४ । २२) । त्रयो धर्मस्कन्धाः

इत्यत्र तावद् यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयो ब्रह्मचर्याचार्यकुलवासी

तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् सर्व एते पुण्यलोका भवन्तीति ( ब्र०

सू० ३।४।१८ शा० भा० ) । यथा च - ख्यातिमात्रं धर्ममेघध्यानोपमं भवति (पा०

यो० सू० १/१ व्या० भा० ) । यथा च - धर्मः प्रत्यग् ब्रह्मैक्यसाक्षात्कारः तं मेहति

सिञ्चति वर्षतीति धर्ममेघः समाधिः (पा० यो० सू० २।२९ का० भा० ) । यथा

च प्रसंख्यानं विवेकज्ञानम् । प्रसंख्यानेऽप्यकुसीदस्य सर्वथा विवेकख्यातेर्धर्ममेघः

समाधिः (तत्रैव) ।
 
२३८
 
-
 
-
 

 
धातुः - , धातु
१. वस्तु, आत्मा, जीवः । यथा - "सकृद्विभातो ह्येवैष धर्मो

धातुस्वभावतः" । (मा० उ० गौ० पा० का० ४।८१ ) । यथा - धातुस्वभावतः वस्तु

स्वभावत एव चैतन्यैकप्रकाशोऽयमित्यर्थः (तत्रैव शा० भा० ) । यथा च धर्मो

धातुः परमात्मरूपं स्वतन्त्रं वस्तु यस्मात् स्वभावत एव सकृद्विभातम् । किञ्च

धीयते निधीयते स निक्षिप्यते सुषुप्त्यादौ अस्मिन्निति धातुरात्मोच्यते (मा० उ० गौ०

पा० का० ४।८१ शा० भा० ) । २. शब्दप्रकृतिः - भू सत्तायाम्, पच्छृ पाके

इत्यादि । भूवादयो धातवः (पा० सू० १ ।३।१) । ३. वातपित्तकफाः तथा रेतः इति

आयुर्वेदविदः । ४. हिरण्यम् रजतम्, कांस्यम् ताम्रम्, शीशकमेव च । रङ्गमायसरैत्यं

च धातवोऽष्टौ प्रकीर्तिताः । इति धातुवादिनः । ५. शुद्धं ब्रह्म - यथा - देवैरत्रापि

विचिकित्सितं पुरा नहि सुविज्ञेयमणुरेष धर्मः । अन्यं वरं नचिकेतो वृणीष्व मा

मोपरोत्सीरति मा सृजैनम् (क० उ० १ ।१।२१)।
 

 
धातुस्वभावतः - , धातुस्वभावत
आत्मस्वभावतः । एष एवंलक्षण आत्माख्यो धर्मो धातुस्व-

भावतो वस्तुस्वभावत इत्यर्थः (मा० उ० गौ० पा० का० ४।८१ शां० भा०) । यथा

च - किं च धीयते निधीयते सर्वं निक्षिप्यते सुषुप्त्यादौ अस्मिन्निति धातुरात्मोच्यते

(तत्रैव आ० गि० टी०) ।
 
-
 

 
धाम, धामन्
१. परमात्मा प्रकाश आश्रयश्च । यथा - "परं ब्रह्म परमात्मा परं धाम

परं तेज:" (गी० १२/१२ शा० भा०) । यथा - परं ब्रह्म परं धाम आश्रयः प्रकाशो
 
धाम.