This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
२३७
 
-
 
इत्यादौ गुणो धर्मः । यथा - सन्दिग्धसाध्यधर्मत्वं
पक्षत्वम् । (ख)
यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । (वै० सू० १ । १ । २) न च धर्माधर्मयोः
स्वरूपफलसाधनादिसमधिगमे शास्त्रादतिरिक्तं कारणं शक्यं सम्भावयितुम् (ब्र० सू०
३ । १।८ शा० भा०) । प्रवृत्तिलक्षणः निवृत्तिलक्षणश्च । यथा - प्राणिनां च सुखप्राप्तये
धर्मो विधीयते । दुःखपरिहाराय चाधर्मः प्रतिषिध्यते (ब्र० सू० १ । ३ । ३० शा० भा० ) ।
यथा च - आचारोऽपि च धर्मविशेष एव (ब्र० सू० ३/१/११ शा० भा० ) । ये
केचन धर्मा ब्रह्मणि असन्तोऽपि अपृथक्त्वेऽपि पृथक्त्वेन भासन्ते । यथा -
चिदेकरसस्य – आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि
चैतन्यात्पृथगिवावभासन्ते (त० प्र० स्वप्र० प्र० न० प्र० टी०) । (ग) वेदविहितकर्मजन्यो
धर्मः।वेदनिषिद्धकर्मजन्योऽधर्मः (त० सं० इति न्यायवैशेषिकाः) ।५. चोदनालक्षणोऽर्थो
धर्मः (जै० सू० १।१।१) । अत्रार्थत्वे सति चोदनागम्यो धर्मः (जै० न्या० १।१।१ ) ।
स च धर्मः भट्टमते यागादिः, प्राभाकरमते त्वपूर्वः । इति पूर्वमीमांसकाः । ६. वेदः
स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद् धर्मस्य लक्षणम्
(मनु० स्मृ० २।१२) । एतद् धर्मलक्षणं दशविधम् - धृतिः क्षमा दमः स्तेयं
शौचमिन्द्रियनिग्रहः । धीर्विद्यासत्यमक्रोधो दशकं धर्मलक्षणम् (म० स्मृ० ६।९२)।
धर्मस्य शुद्धिश्च तत्रैवोक्ता - प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदित्तं
कार्यं धर्मशुद्धिमभीप्सता (म० स्मृ० १२।१०५) । पुनश्चाऽयं स्मार्तः धर्मः षड्विधः ।
वर्णधर्मः आश्रमधर्मः, वर्णाश्रमधर्मः, गुणधर्मः, निमित्तधर्मः, साधारणधर्मश्चेति । एतेषां
विस्तृतं विवेचनम् मनुयाज्ञवल्क्यस्मृत्यादौ मिताक्षरादिटीकायां च द्रष्टव्यमिति
धर्मशास्त्रविदः । यथा च - धर्मः प्रत्यग्ब्रह्मैक्यसाक्षात्कारः (पा० यो० सू० ४।१९
बलरामोदासीनः) । यथा च - योग्यतावच्छेदिका धर्मिणः शक्तिरेव धर्मः (पा० यो०
सू० भा०)। धर्मिणो द्रव्यस्य मृदादेः चूर्णपिण्डघटाद्युत्पत्तिशक्तिरेव धर्मः (तत्रैव व०
रा० उ०) । यथा च - त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति । प्रथमस्तप एव
द्वितीयो ब्रह्मचर्याचार्यकुलवासी । तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् । सर्व
एते पुण्यश्लोका भवन्ति (छा० उ० १३ । १) ।
 
-
 
धर्ममेघसमाधिः – धर्मं मेहति वर्षति एवम्भूतः समाधिः धर्ममेघसमाधिः
निर्विकल्पसमाधिरित्यर्थः । यथा - धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षात्येष
यतो धर्मामृतधाराः सहस्रशः (प० द० १।६०) ।