This page has not been fully proofread.

२३६
 
शाङ्करवेदान्तकोशः
 
दर्शयति (ब्र० सू० १/१/२० शा० भा०) । यथा च - धनसनय इति धनमन्तो
विभूतिमन्त इति यावत् (तत्रैव भाम० ) ।
 
-
 
धर्मः- आनन्दः विषयानुभवः नित्यत्व चेत्यादयो ब्रह्मधर्माः । यथा -
विषयिणस्तद्धर्माणां चेत्यध्यासभाष्यावयवं व्याचक्षाणैः पञ्चपादिकाकृद्भिः - ननु
विषयिणश्चिदेकरसस्य कुतो धर्मा ये विषयेऽध्यस्येरन् इत्याक्षिप्य समाहितम् - आनन्दो
विषयानुभवो नित्वं चेति धर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथक्त्वेनावभासन्त इति
(त० प्र० स्वप्र० न० प्र० टी० ) ।
 
-
 
धर्मः – १ . अभ्युदयसाधनं निःश्रेयससाधनं वासुदेवाख्यं परं ब्रह्म च । यथा -
अभ्युदयार्थोऽपि यः प्रवृत्तिलक्षणो धर्मो वर्णाश्रमांश्चोद्दिश्य विहितः स च देवादिस्थान-
प्राप्तिहेतुरपि सन्नीश्वरार्पणबुद्ध्यानुष्ठीयमानः सत्त्वशुद्धये भवति फलाभिसन्धि-
वर्जित, शुद्धसत्त्वस्य च ज्ञाननिष्ठायोग्यताप्राप्तिद्वोरण ज्ञानोत्पत्तिहेतुत्वेन च
निःश्रेयसहेतुत्वमपि प्रतिपद्यते । तथा चेममर्थमभिसन्धाय वक्ष्यति- "ब्रह्मण्याधाय
कर्माणि यतचित्ता जितेन्द्रियाः । योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये । इमं द्वि-
प्रकारकं धर्मं निःश्रेयसप्रयोजनं परमार्थतत्वञ्च वासुदेवाख्यं परब्रह्माभिधेयभूतं
विशेषतोऽभिव्यञ्जयत् विशिष्टप्रयोजनसम्बन्धाभिधेयवद्गीताशास्त्रं यतस्तदर्थ-
विज्ञानेन समस्तपुरुषार्थसिद्धिरतस्तविवरणे यत्नः क्रियते मया (गी० उपो० शा०
भा०)। २. चित्प्रतिबिम्बो जीवः बन्धनरहितः आवरणरहितो वा । यथा - अजेष्व-
जमसंक्रान्तं धर्मेषु ज्ञानमिष्यते । यतो न क्रमते ज्ञानमसङ्गं तेन कीर्तितम् (मा० उ०
गौ० पा० का० ४।६) । अजेष्वनुत्पन्नेष्वचलेषु धर्मेष्वात्मसु । .... तदेवमजमचलं च
धर्मेषु ज्ञानमिष्यते .... (तत्रैव शां० भा०) । यथा च - अजा धर्माश्चिप्रतिबिम्बा
जीवा विवक्ष्यन्ते (तत्रैव आ० गि० टी० ) । यथा च - अलब्धावरणाः ।
अलब्धमप्राप्तमावरणमविद्यादिबन्धनं येषां ते धर्मा अलब्धावरणा बन्धनरहिता इत्यर्थः ।
.....न तु मुत्याख्या स्थितिस्तैराप्याऽस्ति । नित्यशुद्धबुद्धमुक्तस्वभावा एव सर्वे !
कल्पितसंवृतिमात्रेण तु बोधेनाप्रबोधनाश आवरणच्युतिर्मोक्षप्राप्तिश्च भवतीत्युच्यत
इत्यभिप्राय: (तत्रैव ९८ शां० भा०) । ३. स्वस्वभावः । यथा - स्वयं प्रभातं भवति ।
स्वयं ज्योतिः स्वभावमेतन्नादित्याद्यपेक्षमित्यर्थः ।.... एव धर्म आत्माख्यः सकृद्विभातः
सदैव विभातः (तत्रैव ८१ शां० भा०) । बौद्धमते धर्मो धातुः प्रायः द्रव्यवाचकः
(ब्र० सू० भाम०) इत्यद्वैतवेदान्तिनः । ४. (क) आधेयः पदार्थः । यथा द्रव्यं गुणवद्