This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
२३५
 
द्विचन्द्रः, द्विचन्द्र
एतत्सप्रयोजनभानस्योदाहरणम् । यथा - न हि द्विचन्द्रालातचक्र-

गन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति (ब्र० सू० २।१।३३ भाम० ) ।
 
-
 
-
 
बि

 
द्वि
नामा - , द्विनामन्
एक एव पुरुषः पुरुषद्वयवद्भासते । अत्रोदाहरणम् - द्विनामा ।

यथा - द्विनामा द्विगोत्र इत्यादि हि स्मृतिः । दृश्यते चोभयोः पिण्डभाक्त्वम् (छा०

उ० १/१२/१ शा० भा० ) । यथा च - द्विनामेति । इत्यादिवाक्यं स्मृतिरूपं धर्मशास्त्रे

प्रसिद्धमित्यर्थः। द्विगोत्रमेकस्य लोकेऽपि प्रसिद्धम् (तत्रैव आ० गि०) ।
 
-
 

 
द्वेषः - , द्वेष
क्षेत्रम् (शरीरम्) । यथा - तथा द्वेषो यज्जातीयमर्थं दुःखहेतुत्वेनानु-

भूतवान् पुनस्तज्जातीयमुपलभमानस्तं द्वेष्टि सोऽयं द्वेषो ज्ञेयत्वाद् क्षेत्रमेव (गी०

१३ ।६ शा० भा०) । यथा च - द्वेषो दुःखे तत्साधने चेदं मे भूयादिति स्पृहाविरोधिनी

चित्तवृत्तिः क्रोध इति ईर्ष्यति चोच्यते (तत्रैव म० सू०) । दुःखेष्वप्रीतिर्द्वेषः । यथा -

अविद्यास्मितारागद्वेषाभिनिवेशः इति (पा० यो० सूत्रे २।३) ।
 

 
द्वैतम् - , द्वैत
द्वाभ्यां प्रकाराभ्यां जीवात्मपरमात्मप्रकाराभ्याम् इतं प्राप्तं ज्ञानं द्वैतं

तदेव (स्वार्थे) द्वैतम् । यथा - मायायाः कामधेनोर्वत्सौ जीवेश्वरावुभौ । यथेच्छं पिबतां

द्वैतं तत्त्वं त्वद्वैतमेव हि (प० ० ६ । २३६) ।
 
-
 
-
 
-
 
G
 

 
दंशः, दंश
कर्म – यथा - तद्वां नरा सनये दं द...... स उग्रमाविष्करोमि तन्यतु-

र्न वृष्टिम् (बृ० उ० २।५।१६) । तच्च दिव्यम् । यथा च - दिव्य दिवि भवम्

(तत्रैव शा० भा० ) । यथा - दिव्यं दिवि हार्दाकाशे आविर्भूतम् (तत्रैव नी० क०) ।

यथा – दिवि परमे व्योग्नि स्वस्वरूपे भवं दिव्यम् (तत्रैव म० सू०) । यथा - "दिव्यं

दिवि परमे व्योग्नि हृदयाकाशे भवं दिव्यम् (तत्रैव भाष्यो०) । यथा-

दिव्यत्वमप्राकृतत्वम् (गी० १०/१६ आ० गि०) । यथा - दिव्या असर्वज्ञैर्ज्ञातुमशक्या

हि यस्मात्तस्मात्सर्वज्ञस्त्वमेव ता अशेषेण वक्तुमर्हसि (तत्रैव म० सू०) । यथा -

दिव्या अत्यद्भुता (तत्रैव श्रीधरी) यथा - दिव्यमप्राकृतं ऐश्वररूपदर्शनयोग्यं चक्षुस्तुभ्यं

ददामि (गी० ११।८ म० सू० ) । यथा- अतोऽहं दिव्यमलौकिकं ज्ञानात्मकं

चक्षुस्तुभ्यं ददामि (तत्रैव श्रीधरी) । यथा च - दिवि भवानि दिव्यान्यप्राकृतानि ।

गी० ११।५ शां० भा० ।
 
-
 

 
धनसनिः - , धनसनि
विभूतिमान् । यथा - तद्य इमे वीणायां गायन्त्येतं ते गायन्ति

तस्मात्ते धनसनयः (छा० १।७।६) । इति च लौकिकेष्वपि गायनेष्वस्यैव गीयमानत्वं