2023-03-23 11:57:15 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
शाङ्करवेदान्तकोशः
S
परस्तात् सोम्भःशब्द वाच्योऽम्भोभरणात् । द्यौः प्रतिष्ठाऽऽश्रयस्तस्माम्भसो लोकस्य
(ऐ० उ० १/२ शा० भा० ) ।
-
द्वयम् –
द्वयम्, द्वय
द्वयोः पूरणमित्यर्थे द्वेस्तीयः (पा० सू०५/२/५४) इत्ययेन तीय-
प्रत्ययेन निष्पन्नः । बौद्धनये सत्यद्वयं ग्राह्यग्राहकरूपं चित्तं चैत्तिकं च । यथा-
चित्तमात्रमिदं सर्वं द्विधा चित्तं प्रवर्तते । ग्राह्यग्राहकभावेनात्मात्मीयं न विद्यते (ल०
अ० सूत्रे ३ । १ । २१ ) । द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोकसंवृति सत्यं
च सत्यं च परमार्थतः (माध्य० का० २४।८) । यथा च - चित्तस्पन्दितमेवेदं ग्राह्य-
ग्राहकमद्वयम् (मा० उप० गौ० पा० का० ४।७२) । अत्रावधेयम् - परिकल्पितं
परतन्त्रं च सत्यं संवृतिसत्येऽन्तर्भवतः । परिनिष्पन्नं च सत्यं परमार्थसत्येऽन्तर्भवति ।
-
द्वयकालः
विज्ञानाभासः । स च यावदन्तर्भासते तावदेव बहिर्भासते ।
-
-
-
यथा - अन्तर्बहिरूपः । कालोभयम् = द्वयकालाश्च भेदकाला अन्योन्यपरिच्छेद्याः ।
यथाऽऽगोदोहनमास्ते यावदास्ते तावद्गां दोग्धि यावद्गां दोग्धि तावदास्ते ।
तावानयमेतावान्स इति परस्परपरिच्छेद्यपरिच्छेदकरणं बाह्यानां भेदानां ते द्वयकालाः
(मा० उ० गौ० का० २।१४ शा० भा० ) यथेयं माण्डूक्योप० कारिका - चित्तकाला
हि येऽन्तस्तु द्वयकालाश्च ये बहिः । कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ।
-
-
द्वयाभासः यथा
स्वप्ने द्रष्टा तथा चित्तं द्वयं भासते न केवलं चित्तमेवेति
बौद्धमतनिरासः । यथा - द्रष्टा चित्तस्यावभासः । जीवादिभेदानां स्वप्ने दृश्यमानाना-
मुक्तानां पृथगसत्त्वं साधयति चित्तमेवेति । तर्हि द्रष्टा चित्तं चेति द्वयं स्वप्ने स्वीकृतम्
(मा० उ० गौ० पा० का० ४ । ६२ शा० भा० ) ।
-
द्वादशायतनम्
बौद्धाभिमतधर्मस्य.... द्वादश आयतनानि । एथा - पञ्चेन्द्रियाणि
शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि तु (सर्व० द०
सं० बौ०) ।
बारम् -
द्वारम्, द्वार
अध्यासे अज्ञानं द्वारम् । यथा- आत्मन्यज्ञानसम्बन्धोऽज्ञानकृतो
दृग्दृश्यसम्बन्धत्वाद् घटसम्बन्धवत् । अयमर्थः - यस्मादसङ्ख्या दृशा (सकलमेव
दृश्यं घटादिसम्बध्यमानमज्ञानसम्बन्धं द्वारीकृत्याऽऽध्यासिकेन तादात्येनैव सं० )
बध्यतेऽन्यस्य संयोगसमवायादेश्शक्यनिरूपणत्वादिति वक्ष्यति (सं० शा० १ ।५२
सु० टी०) ।