This page has been fully proofread once and needs a second look.

देह एव न तु देही । स च देहाधिकरणमेवात्मनोऽधिकरणं मन्यमानो गृहे भूमावासने
वाहमास इत्यभिमन्यते न तु देहेऽहमास इति भेददर्शनाभावात् । संघातव्यतिरिक्तात्मदर्शी
तु सर्वकर्मसंन्यासी भेददर्शनाद् देहेऽहमास इति प्रतिपद्यते (गी० ५।१३ म० सू०) ।
यथा च – 'यदप्यदेही लिङ्गशरीररहित इति तदपि न । भेदबोधकेन प्रत्ययेन देहादितरात्म-
दर्शीति वर्णनस्यैव नवद्वारे पुरे आस्ते इत्यस्य योगेन स्वारसिकत्वेन प्रश्लेषेण क्लिष्ट-
कल्पनाया अन्याय्यत्वात् (तत्रैव भाष्यो०) । यथा च - सर्वो हि संन्यास्यसंन्यासी वा
देह एवास्ते । ..... देहादिसंघातव्यतिरिक्तात्मदर्शिनस्तु देह आस इति प्रत्यय उपपद्यते
(तत्रैव शा० भा० ) ।
 
दैवीसम्पत्, दैवीसम्पत्
सात्विकी सम्पत् । यथा - तयोर्ज्ञानयोगयोव्यवस्थिति र्व्यवस्थानं
तन्निष्ठतैषा प्रधाना दैवी सात्विकी सम्पत् (गी० १६१ शा० भा० ) । यथा - "ज्ञाने
कर्मणि वाधिकृतानामभीतिरूपाद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी सम्पदित्यर्थः ।
महाभाग्यानामत्युत्तमा दैवी सम्पदुक्ता (तत्रैव आ० गि०) । यथा - अभयं स्वोच्छेद-
बुद्ध्यभावः । सत्त्वसंशुद्धिः चित्तनैर्मल्यम् । ज्ञानं श्रवणादिजन्यं योगो ज्ञातेऽर्थे
चित्तप्रणिधानं तयोर्व्यवस्थितिः । निर्दिष्टैषा मुख्या दैवी सम्पत् (तत्रैव नी० क०) ।
यथा च - तत्राधिकारिविशेषभूतां सम्पदमाह श्रीभगवान् । अभयमिति त्रिभिः । अभयं
भयाभावः सत्त्वस्य चित्तस्य संशुद्धिः सुप्रसन्नता, ज्ञानयोगे आत्मज्ञानोपाये व्यवस्थितिः
परिनिष्ठा, .आर्जवमवक्रता (तत्रैव श्रीधरी) ।
 
दोषः, दोष
१. यथार्थज्ञानावरोधकं कारणम् । यथा- रज्जौ सर्पभ्रमे गाढ़तिमिर-
रोगादि । इत्यद्वैतवेदान्तिनः ।२. अप्रमायाः असाधारणं कारणमिति । अयं लक्षणदोषोऽपि
अनुमितितत्करणपरामर्शैतदन्यतरप्रतिबन्धकयथार्थज्ञानविषयः (त० सं० दी०) । इति
न्यायविदः । ३. वातपित्तकफाः इति आयुर्विदः । ४. धूर्तताचापल्यादि इति लौकिकाः ।
 
युभ्वायायतनम्, युभ्वायायतन
ब्रह्म । यथा च - द्यौश्च भूश्च द्यु॒भुवौ द्युभुवावादी यस्य तदिति
द्युभ्वादि । तदेतदस्मिन् वाक्ये द्यौः पृथिव्यन्तरिक्षं मनः प्राणा इत्येवमात्मकं जगदोतत्वेन
निर्दिष्टं तस्यायतनं परं ब्रह्म भवितुमर्हति । कुतः ? स्वशब्दादात्मशब्दादित्यर्थः
(ब्र० सू० १ ।३।१ शा० भा०) । यथा द्युभ्वाद्यायतनं परं ब्रह्मैव, न प्रधानाव्याकृत-
वायुशारीरहिरण्यगर्भाः कुतः ? स्वशब्दात् (तत्रैव भाम० ) ।
 
द्यौः, द्यो
१. निधनम् (सामगानभेदः) । सामोपासनम् । यथा - "निधनम्, दिवि
निधीयन्ते हीतो गता इत्यूर्ध्वेषूर्ध्वगतेषु लोकदृष्ट्या सामोपासनम् (छा० उ० २।१