2023-03-12 05:01:06 by ambuda-bot
This page has not been fully proofread.
२३२
शाङ्करवेदान्तकोशः
-
भवेत्तस्य देवत्वं देवतेति च (वाच०) । ३. अग्नीन्द्रादयः । यथा - अग्न्यादिदेवपल्यन्तं
देवताकाण्डमुच्यते । वाय्वादयो भगान्ताः स्युरन्तरिक्षदेवता । सूर्यादिदेवपल्यन्ता
घुस्थाना देवता इति (यास्काचार्यः) । सदाराः बिबुधाः सर्वे स्वानां स्वानां गणैः सह ।
त्रैलोक्ये ते त्रयस्त्रिंशत् कोटिसंख्या तयाभवन् (पद्मपुराणे उत्तरखण्डे) (वाच०)। ४.
पितरः । वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धेन
तर्पिता: ( याज्ञ० स्मृ०१ । २६८ ) ।
देवयानम्- परलोकगमने उत्तममार्गविशेषः । अर्चिमर्ग: देवपथः उत्तरायणं
च । यथा - अर्चिरादिकैका तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽह: (बृ० उ० ६ ।२।१५) ।
यथा च - एनं देवयानं पन्थानमासाद्याग्निलोकमागच्छति (कौ० १ ।३) । यथा च -
सूर्यद्वारेण ते विरजाः प्रयान्ति (मु० उ० १/२/११) विशदज्ञानाय अर्चिर्मार्गशब्दः
उत्तरायणमार्गशब्दश्च द्रष्टव्यौ ।
-
देहः - भोगायतनम् । यथा - वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम्
(वे० प० ७ प०) । अयं च त्रिविधः - कारणदेहः लिङ्गदेहः (सूक्ष्मदेहः) स्थूलदेहश्च ।
कारणदेहो यथा- अन्तर्यामी जगत्कारणमीश्वर इति च व्यपदिश्यते सकला-
ज्ञानावभासकत्वात् । यः सर्वज्ञः स सर्वविदिति श्रुतेः । ईश्वरस्येयं समष्टिः
अखिलकारणत्वात् कारणशरीरम् ।....अस्यप्राज्ञत्वमस्पष्टोपाधितया अनतिप्रकाशकत्वात् ।
अस्यापीयमहङ्कारादिकारणत्वात् कारणशरीरम् । एतानि एव सूक्ष्मभूतानि
तन्मात्राणि अपञ्चीकृतानि चोच्यन्ते । एतेभ्यः सूक्ष्मशरीराणि स्थूलभूतानि चोत्पद्यन्ते ।
सूक्ष्मशरीराणि सप्तदशावयवानि लिङ्गशरीराणि । अवयवास्तु ज्ञानेन्द्रियपञ्चकं
वुद्धिमनसी कर्मेन्द्रियपञ्चकं वायुपञ्चकं चेति । एवं पञ्चीकृतपञ्चभूतेभ्यः
स्थूलशरीरोत्पत्तिः (वे० सा० ३३) । यथा च- जरायुजाण्डजस्वेदजोद्भिजाख्य-
चतुर्विधस्थूलशरीराणामुत्पत्तिः (वे० प० ७ प०) । यथा च - सूक्ष्मा मातापितृजाः
सह प्रभूतेस्त्रिधा विशेषाः स्युः । सूक्ष्मस्तेषां नियता मातापितृजा निवर्तन्ते ।
पूर्वोत्पन्नमसक्तं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ।
चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद्विना विशेषैर्न तिष्ठति
निराश्रयं लिङ्गम् (सां० का० ३९-४१) । शरीरशब्दोऽपि द्रष्टव्यः ।
-
...
देही - देहभिन्नात्मदर्शी । यथा - देही देहभिन्नात्मदर्शी प्रवासीव परगेहे पूजा-
परिभवादिभिरप्रहृष्यन्न विषीदन्नहंकारममकारशून्यस्तिष्ठति । अज्ञो हि देहतादात्याद्