2023-03-12 05:01:05 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
देवगण: - वसवः (अष्टसंख्यो गण:) तथैकादश रूद्राः द्वादशादित्याः
विश्वेदेवास्त्रयोदश, विश्वाया = अपत्यानि सर्वे वा देवाः मरूतः सप्त सप्तगणाः
(बृ० उ० १।४।१२) ।
-
२३१
-
देवसंख्या - पुनश्च शाकल्येन 'कतमे ते' इति संख्येयेषु पृष्टेषु याज्ञवल्क्य-
स्योत्तरम् यथा - महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति । अष्टौ वसव एकादश
रूद्रा द्वादशादित्या इन्द्रश्च प्रजापतिश्चेति त्रयस्त्रिंशद्देवाः (ब्र० सू० १ । ३ । २७ भाम०) ।
अत्र अन्येऽपि देवविषयकाः बहवः विचाराः सन्ति । यथा च - 'कति देवाः' इत्युपक्रम्य
'त्रयश्च त्री च शता त्रयश्च त्री च सहस्रा' इति निरूच्य 'कतमे ते' इत्यस्यां पृच्छायाम्
महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः (बृ० उ० ३।९।१,२) इति निब्रुवती
श्रुतिरेकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयति । तथा त्रयस्त्रिंशतोऽपि
षडाद्यन्तर्भावक्रमेण 'कतम एको देव इति प्राणः' इति प्राणैकरूपतां देवानां दर्शयन्ती
तस्यैवैकस्य प्राणस्य युगपदनेकरूपतां दर्शयति । तथा स्मृतिरपि - "आत्मनो वै शरीराणि
बहूनि भरतर्षभ । योगी कुर्याद्वलं प्राप्य तैश्च सर्वैर्महीं चरेत् । प्राप्नुयाद्विषयान्
कैश्चित्कैश्चिदुग्रं तपश्चरेत् । संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिव" । इत्येवं
जातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयति । किमु
वक्तव्यमाजानसिद्धानां देवानाम् । अनेकरूपप्रतिपत्तिसम्भवाच्चैकैका देवता बहुभी
रूपैरात्मानं प्रविभज्य बहुषु·यागेषु युगपदङ्गभावं गच्छतीति । परैश्च न दृश्यतेऽन्तर्धानादि-
क्रियायोगादित्युपपद्यते । अनेकप्रतिपत्तेर्दर्शनादित्यस्यापरा व्याख्या - विग्रहवतामपि
कर्माङ्गभावचोदनास्वनेका प्रतिपत्तिर्दृश्यते । क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं
न गच्छति यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यते । क्वचिच्चैकोऽपि
विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो
युगपन्नमस्क्रियते । तद्वदिहोद्देशपरित्यागात्मकत्वाद्यागस्य विग्रहवतीमप्येकां देवता-
मुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवतानां न
किञ्चित्कर्मणि विरुध्यते (ब्र० सू० १ । ३ । २७ शा० भा० ) ।
-
-
-
देवता - १. रामादयो देवता । यथा - देवता सगुणं ब्रह्म (ब्र० सू० १/४०
वे० क० त० ) । २. मन्त्रकरणकहविःकर्मकत्यागभागित्वेनोद्देश्यत्वम् । यथा – अग्नये
स्वाहा, पितृभ्यः स्वधा इत्यादि । शब्दमयी देवता तथा अर्थोपहितः शब्द एव देवता
इति मीमासकाः । उक्तञ्च - यस्य यस्य तु मन्त्रस्य उद्दिष्टा देवता तु या । तदाकारं