We're performing server updates until 1 November. Learn more.

This page has not been fully proofread.

शावेदान्तकोशः
 
२३०
 
दृष्टिसमयां सृष्टिमुपेत्य घटादिदृष्टेश्चक्षुः सन्निकर्षानुविधानप्रतीतिं दृष्टेः पूर्वं घटाद्य-
भावेनासंगच्छमानां स्वप्नवदेव समर्थयमानाः जाग्रद्गजाद्यनुभवोऽपि न चाक्षुष
इत्याहुः । ननु दृष्टिसृष्टिमवलम्ब्य जाग्रप्रपञ्चस्य कल्पितत्वोपगमे कस्तस्य कल्पकः ।
निरुपाधिरात्मा अविद्योपहितो वा । नाद्यः मोक्षेऽपि साधनान्तरनिरपेक्षस्य कल्पकस्य
सत्त्वेन प्रपञ्चानुवृत्त्या संसाराविशेषप्रसङ्गात् । न द्वितीयः अविद्याया अपि कल्पनीयत्वेन
तत्कल्पनात् प्रागेव कल्पकसिद्धेर्वक्तव्यत्वात् । अत्र केचिदाहुः पूर्वपूर्वकल्पिता-
विद्योपहितोत्तरोत्तराविद्याकल्पकः । अनिदंप्रथमत्वाच्च
 
कल्पककल्पनाप्रवाहस्य
 
-
 
नानवस्थादोषः ।.... अन्ये तु दृष्टिरेव विश्वसृष्टिः । दृश्यस्य दृष्टिभेदे प्रमाणाभावात् ।
ज्ञानस्वरूपमेवाहुर्जगदेतद् विचक्षणाः । अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टयः
(वि० पु० १/४/४०) इतिस्मृतेश्च इति सिद्धान्तमुक्तावल्यादिदर्शितो दृष्टिसृष्टिवादः
(सि० ले० सं० २ प०) । यथा च - अथ केयं दृष्टिसृष्टि: १. दृष्टिरेव सृष्टिरिति
वा २. दृष्टिव्यतिरिक्तसृष्ट्यभावो वा ३. दृष्टिव्यतिरेकेण सृज्याभावो वा ४.
दृष्टिसामग्रीजन्यत्वं वा ५. दृष्टिसमानकालीनसृष्टिर्वा ६. दृष्टिसमानसत्ताकसृष्टिर्वा
७. सदसविलक्षणत्वं वा ८. त्रिविधसत्त्ववहिंर्भूतत्वे सति असद्विलक्षणत्वं वा ९.
अज्ञातसत्त्वाभावो वा १०. ज्ञातैकसत्त्वं वा.... इति चेत्, न । अनाद्यतिरिक्तसृष्टि-
विषय एव दृष्टिसृष्टिस्वीकारात् । कारणात्मना स्थायित्वस्वीकारच्च । .... सर्वलोका-
दिसृष्टिश्च तत्तदृष्टिव्यक्तिमभिप्रेत्य यदा यत्पश्यति तत्समकालं तत्सृजतीत्यत्र
तात्पर्यात् (अ० सि० दृ० सृ० उप०) । एतदर्थं सृष्टिदृष्टिवादशब्दोऽपि द्रष्टव्यः ।
 
देबः – १ . (क) द्योतनात् द्योतनस्वरूपः । यथा - 'देवं द्योतनात्मकम्' (गी०
११।११ श्रीधरी) । यथा च - शास्त्रजनितज्ञानकर्मभाविता द्योतनाद् देवा भवन्ति ।
त एव स्वाभाविकप्रत्यक्षानुमानजनितदृष्टप्रयोजनकर्मज्ञानभाविता असुराः । स्वेष्वे-
वासुषु रमणात् सुरेभ्यो वा देवेभ्योऽन्यत्वात् (बृ० उ० १ ।३।१ शा० भा०) ।
(ख) शास्त्रोद्भासिता इन्द्रियवृत्तिः । यथा च - दीव्यतेर्घोतनार्थस्य शास्त्रोद्भासिता
इन्द्रियवृत्तयः (छा० उ० १ ।२।१ शा० भा० ) । यथा च - दीव्यतिर्घोतनार्थो दिवु
क्रीडाविजीगिषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिष्विति दर्शनात् तस्य
 
चाजन्तस्य सति गुणे कर्त्तरि यथोक्तरूपसिद्धिरित्यर्थः । ते च द्योतका देवा रूढे
इन्द्रादयो भविष्यन्तीत्याशङ्क्याऽऽह (तत्रैव शा० भा० आ० टी०) । यथा च -
देवनार्थदीव्यतिधातुनिर्मितो देवशब्दः इति । एतदाम्नायते देवनाद्वै देवोऽभूदिति
तद्देवानां देवत्वमिति । अतः दीव्यतीति देवः मन्त्रेण द्योत्य इत्यर्थः इति । (ऋ० भा०
भूमिकायां माधवः) ।