This page has not been fully proofread.

२२९
 
शुक्तिविज्ञानमेवावगतं सत्त्वेनोपाधिना शुक्त्यज्ञाननिवृतिपदेनाभिधीयत इत्यर्थः (सं०
शा० ४।१६) । यथा - दृतेर्हरणकर्तृवाचक एव शब्दः कृदन्तत्वात् किं त्वन्वयविशेषे
दृतिनाथयोरूपपदयोः सतो: पशुत्वं तटस्थं निमित्तं भवति न वाच्यान्तर्गतमित्यर्थः
(सं० शा० ४।१७) । दृतिहरिः पशुर्यथेति स्वोक्तबुद्धिवृत्तेरूपाधित्वे दृष्टान्त उक्तः ।
तत्रोपाधिर्नाम विशेषणोपलक्षणाभ्यामन्यो यथा पशुत्वं तटस्थमेव सद् दृतिहरिशब्द-
प्रवृत्तिनिमित्तमित्युक्तं दृष्टान्तं स्पष्टयति (सु० टी०) ।
 
शाङ्करवेदान्तकोशः
 
-
 
दृश्यत्वम् – यथा वृत्तिव्याप्यत्वं वा । फलव्याप्यत्वं वा । साधारणं वा । कदाचित्
कथंचिच्चिद्विषयत्वं वा । स्वव्यवहारे स्वातिरिक्तसंविदन्तरापेक्षानियतं वा । अस्व-
प्रकाशत्वं वा ( अ० सि० ) । यथा च दृश्याः बुद्धिसत्त्वोपारूढाः सर्वे धर्माः
(पा० यो० सू० भा०) ।
 
दृष्टिसृष्टिः - अद्वैतवेदान्ते - एकजीववादः (जीवैक्यवादः) नानाजीववादश्च
पक्षद्वयं वर्तते । तत्र जीवैक्यवाद एव मुख्यः सिद्धान्तः । अस्मिन् पक्षे जीव एव
अज्ञानाधीनो जगत उपादानकारणं निमित्तकारणं च भवति । अतो जीवस्य दृष्टिरेव
सृष्टिः । यथोक्तमद्वैतसिद्धौ दृष्टिसृष्ट्युपपत्तौ - यदा यत् पश्यति तत् समकालं
तत्सृजतीत्यत्र तात्पर्यमिति (अ० सि० ) । यथा च - एतन्मतेऽविद्याकृतदोषा जीव
इव परमेश्वरेऽपि स्युरुपाधेः प्रतिबिम्बपक्षपातित्वादित्यस्वरसात् बिम्बात्मकमीश्वर-
चैतन्यमित्यपरे । तेषामयमाशय:- एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यं
प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् । बिम्बप्रतिबिम्बकल्पनोपाधिश्चैकजीववादे अविद्या ।
अनेकजीववादे तु अन्तःकरणान्येव । अविद्यान्तःकरणरूपोपाधिप्रयुक्तो जीवपरभेदः ।
उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते न तु विम्बे परमेश्वरे । उपाधेः
प्रतिबिम्बपक्षपातित्वात् । ... तस्य च मायोपाध्यपेक्षया एकत्वम् । अन्तः करणोपाध्य-
पेक्षया च नानात्वं व्यवयिते (वे० प० ७ प०) ।
 
-
 
दृष्टिसृष्टिवादः - सृष्टिविषये वादद्वयम्-दृष्टिसृष्टिवादः सृष्टिदृष्टिवादश्च ।
तत्र दृष्टिसृष्टिवादो यथा - अज्ञानानुपहितं शुद्धं चैतन्यमीश्वरः अज्ञानोपहितं
च जीव इति मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इममेव च दृष्टिसृष्टि-
वादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवशाज्जगदुपादानं निमित्तं च ।
दृश्यं च सर्वं प्रतीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः (सि० वि० १) । यथा च -
दृष्टिसृष्टिवादिनस्तु कल्पितस्याज्ञातसत्त्वमनुपपन्नमिति कृत्स्नस्य जाग्रप्रपञ्चस्य
 
-