This page has been fully proofread once and needs a second look.

२२८
 
शाङ्करवेदान्तकोशः
 
मानसं तु कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् । सर्वं चैतदान्तरो-

पायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं च दुःखं द्वेधा - आधिभौतिकम्,

आधिदैविकञ्च । तत्राधिभौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं

यक्षराक्षसविनायकग्रहावेशनिबन्धनं चेति (सा० कौ०) । उक्तं च दुःखत्रयामिघातात्

(सा० का० १ ) ।
 

 
दुःखान्तः - , दुःखान्त
आध्यात्मिकाधिदैविकाधिभौतिकत्रिविधदुःखोच्छेदः मोक्ष इति

यावत् । स च द्विविधः अनात्मकः सात्मकश्च यथा - दुखान्तो मोक्षः । दुखान्तो

द्विविधः अनात्मकः सात्मकश्चेति । तत्रानात्मकः सर्वदुः खानामत्यन्तोच्छेदरूपः ।

सात्मकस्तु दृक्रियाशक्तिलक्षणमैश्वर्यम् (सर्व० द० सं० नकुलीस द०) । यथा च -

दुःखान्तः मोक्षः । पशव आत्मानस्तेषां पाशो बन्धनं तद् विमोक्षो दुखान्तः । (ब्र०

सू० २।२।३७ भाम०) इति नकुलीशपाशुपताः ।
 

 
दुरोणसद् - , दुरोणसद्
सोमः, ब्राह्मणः, अतिथिश्च । यथा - सोम: सन्दुरोणे कलशे

सीदतीति दुरोणसत् । ब्राह्मणोऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति (का०

उ० ५/२ शा० भा० ) ।
 

 
दुर्दशम्, दुर्दश
दुर्विज्ञेयम्, अज्ञानमिति । दुईक्षा । दुर्दर्शं दुःखेन दर्शनमस्येति

दुर्दशम् । अस्ति नास्तीति चतुष्कोटिवर्जितत्वाद् दुर्विज्ञेयमित्यर्थः (मा० उ० गौ०

का० ४ ।१०० शा० भा० ) ।
 

 
दूरम् - , दूर
दूर इव । यथा- किञ्च तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर

इव (ई० उ० ५ शा० भा०) ।
 

 
दृक् - , दृश्
आत्मा । यथा - "बुद्धिश्च सुषुप्तौ नश्यन्ती नात्मा दृगेव तु सर्वदा

व्यभिचाराणीति नूनं सैवाऽऽत्मेत्यादि"। (सं० शा० १/१९९ सु० टी० ) ।
 
-
 
-
 
वृकु

 
दृक्
शक्ति: - , दृक्शक्ति
पुरुषः । यथा च शक्तिशक्तिमतोरभेदात्पुरुषो दृक्शक्तिः

(ब्र० सू० २।२।६ वे० क० ) । यथा - दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेप्रवृत्तिस्तर्हि

सर्गशक्त्यनुच्छेदवदृक्शक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव । तस्मात् प्रधानस्य

पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् (तत्रैव शा० भा०) ।
 
-
 

 
दृतिहरिः - , दृतिहरि
पशुः । यथा - यथा दृतिहरणकर्तेव पशुत्वरूपतटस्थोपाधिना

दृतिहरिशब्देनोच्यते तथा व्यवहारदशायां स्वाभिधया शुक्तिकात्वमापन्नं चैतन्यमेव