2023-03-12 05:01:05 by ambuda-bot
This page has not been fully proofread.
२२८
शाङ्करवेदान्तकोशः
मानसं तु कामक्रोधलोभमोहभयेर्ष्याविषादविषयविशेषादर्शननिबन्धनम् । सर्वं चैतदान्तरो-
पायसाध्यत्वादाध्यात्मिकं दुःखम् । बाह्योपायसाध्यं च दुःखं द्वेधा - आधिभौतिकम्,
आधिदैविकञ्च । तत्राधिभौतिकं मानुषपशुपक्षिसरीसृपस्थावरनिमित्तम् । आधिदैविकं
यक्षराक्षसविनायकग्रहावेशनिबन्धनं चेति (सा० कौ०) । उक्तं च दुःखत्रयामिघातात्
(सा० का० १ ) ।
दुःखान्तः - आध्यात्मिकाधिदैविकाधिभौतिकत्रिविधदुःखोच्छेदः मोक्ष इति
यावत् । स च द्विविधः अनात्मकः सात्मकश्च यथा - दुखान्तो मोक्षः । दुखान्तो
द्विविधः अनात्मकः सात्मकश्चेति । तत्रानात्मकः सर्वदुः खानामत्यन्तोच्छेदरूपः ।
सात्मकस्तु दृक्रियाशक्तिलक्षणमैश्वर्यम् (सर्व० द० सं० नकुलीस द०) । यथा च -
दुःखान्तः मोक्षः । पशव आत्मानस्तेषां पाशो बन्धनं तद् विमोक्षो दुखान्तः । (ब्र०
सू० २।२।३७ भाम०) इति नकुलीशपाशुपताः ।
दुरोणसद् - सोमः, ब्राह्मणः, अतिथिश्च । यथा - सोम: सन्दुरोणे कलशे
सीदतीति दुरोणसत् । ब्राह्मणोऽतिथिरूपेण वा दुरोणेषु गृहेषु सीदतीति (का०
उ० ५/२ शा० भा० ) ।
दुर्दशम् – दुर्विज्ञेयम्, अज्ञानमिति । दुईक्षा । दुर्दर्शं दुःखेन दर्शनमस्येति
दुर्दशम् । अस्ति नास्तीति चतुष्कोटिवर्जितत्वाद् दुर्विज्ञेयमित्यर्थः (मा० उ० गौ०
का० ४ ।१०० शा० भा० ) ।
दूरम् - दूर इव । यथा- किञ्च तद्दूरे वर्षकोटिशतैरप्यविदुषामप्राप्यत्वाद्दूर
इव (ई० उ० ५ शा० भा०) ।
दृक् - आत्मा । यथा - "बुद्धिश्च सुषुप्तौ नश्यन्ती नात्मा दृगेव तु सर्वदा
व्यभिचाराणीति नूनं सैवाऽऽत्मेत्यादि"। (सं० शा० १/१९९ सु० टी० ) ।
-
-
वृकुशक्ति: - पुरुषः । यथा च शक्तिशक्तिमतोरभेदात्पुरुषो दृक्शक्तिः
(ब्र० सू० २।२।६ वे० क० ) । यथा - दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेप्रवृत्तिस्तर्हि
सर्गशक्त्यनुच्छेदवदृक्शक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव । तस्मात् प्रधानस्य
पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् (तत्रैव शा० भा०) ।
-
दृतिहरिः - पशुः । यथा - यथा दृतिहरणकर्तेव पशुत्वरूपतटस्थोपाधिना
दृतिहरिशब्देनोच्यते तथा व्यवहारदशायां स्वाभिधया शुक्तिकात्वमापन्नं चैतन्यमेव