2023-03-12 05:01:05 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
२२७
एव दहरोऽस्मिन्नन्तराकाश इत्युच्यते । यत्कारणमाकाशशब्दः परमेश्वरे प्रसिद्धः
(ब्र० सू० १७ शा० भा०) । एषा एव दहरविद्या ।
-
दिक् – १ . दिग् अविद्यास्वरूपैव । यथा- दिक्कालौ त्वप्रमाणिकत्वात् नोक्तौ
आकाशस्यैव दिग्व्यवहारजनकत्वसम्भवात् दिशः श्रोत्रमिति श्रुतेश्च (सि० वि० ८
) इत्यद्वैतवेदान्तिनः । २. प्राच्यादिव्यवहारहेतुर्दिक् (त० सं० प्र० ख०) । इयं
प्राचीप्रतीच्युदीच्यवाचीशब्दप्रयोगरूपव्यवहारभागित्यर्थः । सा चैका विभ्वी नित्या च ।
एकाऽपि उपाधिभेदेन प्राच्यादिभेदव्यवहारवती । नवद्रव्येषु एकमन्यतमं द्रव्यम् । यथा -
पृथिव्यप्तेजोवाय्वाकाशकालादिगात्ममनांसि नवैव (त० स० प्र० ख०) ।
जगदाधारानिखिलकार्यनिमित्तकारणं च । मूर्तं द्रव्यं अवधिं कृत्वा मूर्तेष्वेव द्रव्येषु
एतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेन उत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण
उत्तरपूर्वेण अधस्तादुपरिष्ठाच्च दशप्रत्ययाः भवन्ति सा दिक। एतासां दिशां
पूर्वादिक्रमेण इन्द्राद्यधिपतयः भवन्तीति वेदान्तिनैयायिकादयः ।३. शब्दतन्मात्रपरिणाम
एव दिगित्याहुः वैयाकरणाः (ल० म० ल० प्र०) ।
-
दिव्यः - सर्वगतः परमेश्वरः । हृदयाकाशे प्रतिष्ठितः । यथा- दिवि परमे
व्योम्नि भवतीति दिव्यस्तं सर्वप्रपञ्चातीतं दीव्यति द्योतत इति देव स चादिः ।
सर्वमूलत्वादत एवाजस्तं त्वां सर्वगतमाहुरिति सम्बन्धः (गी० १०/१२ आ० गि०) ।
-
-
-
दुःखम् – १ . निरूपाधिद्वेषविषयीभूता चित्तवृत्तिः । यथा - दुःखं प्रतिकूलात्मकं
ज्ञेयत्वात्तदपि क्षेत्रम् (गी० १३।६ शा० भा०) । यथा - निरूपाधिद्वेषविषयीभूता
चित्तवृत्तिरधर्मासाधारणकारिका (तत्रैव म० सू०) । इत्यद्वैतवेदान्तिनः । २. प्रतिकूल-
वेदनीयं दुःखमिति (त० स०) अत्र प्रतिकूलत्वं च द्विष्टत्वम् । दुःखं तु मनसैव गृह्यते
जीवमात्रवृत्ति च । यथा - बुद्ध्यादयश्च नवात्ममात्रविशेषगुणाः (त०सं०) ।
बुद्धिसुखदुःखेच्छाद्वेषप्रयत्लधर्माधर्मा विशेषगुणाः । तत्त्वज्ञानाद्विशेषगुणानां बुद्ध्यादीनां
नाशे भोगनाशः भोगनाशे भोगायतनस्य शरीरस्य नाशे बुद्ध्यादिभ्यो गुणेभ्य आत्मनः
सम्बन्धनाशः । यथा च- प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकार-
सुखदुःखेच्छाद्वेषप्रयलाश्चात्मनो लिङ्गानि (वै० सू० ३।२।४) । इति न्यायवैशेषिकाः ।
३. दुःखं चित्तादिधर्मः । तच्च बुद्धितत्त्वस्य परिणामविशेषः । रजसः कार्यम् । तच्च
त्रिविधम् । आध्यात्मिकं आधिभौतिकं आधिदैविकञ्च । तत्रापि आध्यात्मिकं
द्विविधं शारीरं मानसञ्च । तत्र शारीरं वातपित्तश्लेष्मणां वैषम्यनिमित्तम् ।