This page has not been fully proofread.

२२६
 
शाङ्कुरवेदान्तकोशः
 
एवमेव उद्दालकश्वेतकेतुसंवादे "तत्त्वमसि " इत्यादि महावाक्यस्यापि । यथा-
नवसंख्याहृतज्ञानो दशमो विभ्रमात्तदा । न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ।
न भाति नास्ति दशम इति स्वं दशमं तदा । मत्वा वक्ति तदज्ञानकृतमावरणं विदुः ।
नद्यां ममार दशम इति शोचन् प्ररोदिति । अज्ञानकृतविक्षेपं रोदनादिं विदुर्बुधाः ।
न मृतो दशमोऽस्तीति श्रुत्वा प्रवचनं तदा । परोक्षत्वेन दशमं वेत्ति स्वर्गादिलोकवत् ।
त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः । अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति
प० द० ७।२३-२७ ।
 
-
 
-
 
दहरः - परमेश्वरः । दहरशब्दस्य भूताकाशः परमेश्वरश्च द्वावर्थी प्राप्नुतः ।
तत्र दहराधिकरणे ब्रह्मसूत्रे परमेश्वर एवार्थः निर्णीतः । अनेन दहरविद्या इत्यपि
प्रसिद्धा । यथा - तत्राकाशशब्दस्य भूताकाशे रूढ़त्वात् भूताकाश एव च दहरशब्द
इति प्राप्तम् । अत उत्तरं ब्रूमः- परमेश्वर एवात्र दहराकाशो भवितुमर्हति, न भूताकाशो
जीवो वा । कस्मात् ? उत्तरेभ्यो वाक्यशेषगतेभ्यो हेतुभ्यः (ब्र० सू० १ ।३।१४
शां० भा० ) ।
 
-
 
दहरविद्या - दहरः ब्रह्म तस्य वेदनम् । यथा- छान्दोग्योपनिषदोऽष्टमेऽध्याये
प्रथमखण्डे प्रथमोऽयं मन्त्रः हरिः ॐ अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म
दहरोऽस्मिन्नन्तराकाशस्तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वा व विजिज्ञासितव्यमिति ।
अस्यार्थः अस्मिन् ब्रह्मपुरे शरीरे यत्सूक्ष्मं कमलाकारं गृहरूपं स्थानं तस्मिन् यः सूक्ष्म
आकाशस्तस्मिन् यद् विद्यते तद् अन्वेष्टव्यं ज्ञातव्यं तत् किमिति । अत्र शाङ्करभाष्ये
उक्तं यद् यावानयं भौतिकाकाशस्तावानेवान्तर्हृदयेऽप्याकाशस्तत्र सूर्याचन्द्रमसौ
वायुरग्निर्नक्षत्रादीनि तिष्ठन्ति । स च आकाशो जरया न जीर्यते न च मृत्युना विन्यते ।
तदाकाशाख्यं ब्रह्म ज्ञातव्यम् । इयमेव दहरविद्या । ब्रह्मसूत्रे दहराधिकरणे ब्र० सू०
२।३।१४-२१ सूत्रेषु एतच्छाङ्करभाष्ये चोक्तम् - तत्र योऽयं दहरे हृदयपुण्डरीके दहर
आकाशः श्रुतः स किं भूतांकाशोऽथवा परमात्मेति संशय्यते । कुतः संशयः आकाश-
ब्रह्मपुरशब्दाभ्याम् (१४ सूत्र शा० भा०) । ततः परम् - दहरः परमेश्वरः उत्तरेभ्यो
हेतुभ्यः । दहरवाक्यशेषे परमेश्वरस्यैव प्रतिपादकौ गतिशब्दौ भवतः-
इमाः सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्ति (छा० ८।३।२) (ब्र०
सू० १५ शा० भा०) । ततः परम् - धृतेश्च हेतोः परमेश्वर एवायं दहरः । कथम् -
दहरोऽस्मिन्नन्तराकाशः (द्र० सू० १६ शा० भा० ) । ततः परम् - इतश्च परमेश्वर
 
-
 
......
 
-