This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
२२५
 
-
 
-
 
दर्शनम् – १ . ब्रह्मसाक्षात्कारः । यथा - आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो
निदिध्यासितव्यः (वृ० २।४।४) । श्रवणमनननिदिध्यासनानि च ब्रह्मसाक्षात्काररूप-
दर्शनसाधनानि । श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः ज्ञात्वा च सततं ध्येय
इति दर्शनहेतवः । २. तत्त्वज्ञानसाधनं शास्त्रं दर्शनम् । दर्शनं तत्त्वज्ञानमुपचाराच्च
तत्त्वज्ञानसाधनेऽपि दर्शनशब्दः प्रयुज्यते । यथा - त्रयीदर्शनविपरीतेषु (प०
पा० भाष्ये विपर्ययप्रकरणे) अत्र श्रीधरविरचिताया न्यायकन्दलीव्याख्यायाम्-दृश्यते
स्वर्गापवर्गसाधनभूतोऽर्थोऽनया इति दर्शनम्, त्रयी एव दर्शनं त्रयीदर्शनम् । एतच्च
दर्शनं द्विविधम् श्रुतिसापेक्षं श्रुतिनिरपेक्षं च । तत्रापि द्वैविध्यम् - श्रुतिसापेक्षाणि
षट्, श्रुतिनिरपेक्षाणि च षट् । श्रुतिसापेक्षाणि - न्यायवैशेषिकौ, साङ्ख्ययोगौ,
पूर्वोत्तरमीमांसे । गोतमप्रणीतं न्यायदर्शनम्, कणादप्रणीतं वैशेषिकदर्शनम्, कपिलप्रणीतं
साङ्ख्यम्, पतञ्जलिप्रणीतं योगशास्त्रम्, मर्हषिजैमिनिप्रवर्तितं द्वादशाध्यायात्मकं
दर्शनं पूर्वमीमांसा महर्षिवेदव्यासप्रवर्तितं चतुरध्यायात्मकं ज्ञानकाण्डरूपं
ब्रह्मसूत्रमुत्तरमीमांसा । एतदपि षडविधम् - मध्वापरनामपूर्णप्रज्ञप्रवर्तितं द्वैतवादि,
श्रीच्छङ्कराचार्यसम्मतं निर्विशेषाद्वैतवादि, श्रीनिम्बार्काचार्यप्रवर्तितं द्वैताद्वैतवादि,
श्रीमवल्लभाचार्यप्रवर्तितं शुद्धाद्वैतवादि, श्रीरामानुजाचार्यश्रीमद्रामानन्दाचार्य-
विशिष्टाद्वैतवादिदर्शनम् ।
 
-
 
श्रीकण्ठाचार्यश्रीकराचार्याभिनवगुप्ताचार्याद्यभिमतं
 
-
 
श्रुतिनिरपेक्षाणि च षट्- माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकरूपचतुर्भेदात्मकानि
बौद्धदर्शनानि, आर्हतदर्शनम् (जैनदर्शनम्) चार्वाकदर्शनं च । पद्मपुराणे उ०
ख० २०७ अ० सर्वदर्शनसंग्रहे च विशेषज्ञानार्थं द्रष्टव्यम् । २. ज्ञानम् । यथा
इदं विश्वं मिथ्या दृश्यत्वाद् शुक्तिरजतवत् । ३. चक्षुरादीन्द्रिय-जन्यं ज्ञानम् । यथा
घटं पश्यतीत्यादि ।
 
दशमस्त्वमसि – इति अभिज्ञानवाक्यम् । कदाचिद् दशपुरुषाः नदीपारमगच्छन् ।
नदीपारं प्राप्य तेषु प्रत्येकं आत्मीयान् सर्वान् गणितवान् । आत्मानं च परित्यज्य
अन्यान् सर्वान् गणितवान् । सर्वदा नवपुरुषान् गणयित्वा रोदितुम् आरब्धवन्तः ।
एतस्मिनन्तरे कोऽपि विज्ञः समागतः । रोदनकारणं विज्ञाय गणितवान् । तेषु एकस्य
गणकस्य कर्णौ गृहीत्वा उक्तवान् दशमस्त्वमसि । ततः प्रत्येकं गणकः आत्मानमपि
दशमं गणयित्वा वयं सर्वे दश एव इति विज्ञाय हृष्टाः । अत्र यथा प्रत्येकं गणकः
आत्मानं विस्मृत्य अपरान् गणयति तथा विज्ञजनद्वारा उपदेशेन आत्मानं दशमं
परिचिनोति तथैव लोके सर्वोऽपि जनः सर्वं जानाति । परमात्मानं न परिचिनोति ।
गुरोरुपदेशेन आत्मानमभिजानाति । अयमेव भावः "दशमस्त्वमसि " इति वाक्यस्य ।