This page has been fully proofread once and needs a second look.

२२४
 
शाङ्करवेदान्तकोशः
 
कार्येषु सद्यो यथावत् प्रतिपत्तुं समर्थः (तत्रैव शा० भा० ) । यथा च दक्षः प्रत्युत्पन्नेषु

कर्तव्येषु यथावज्ज्ञातुं कर्तुं च कुशलो न त्वलसः (तत्रैव भाष्यो०) । यथा च -

दक्ष उपस्थितेषु ज्ञातव्येषु कर्तव्येषु च सद्य एव ज्ञातुं कर्तुं च समर्थः (तत्रैव

म० सू० ) । यथा च दक्षोऽनलसः (तत्रैव श्रीधरी ) ।
 
-
 

 
दक्षिणा, दक्षिणा
१ . ऋत्विग्भ्यो यज्ञसम्पादनानन्तरं दीयमानं धनं दक्षिणा सा

च यमलोकजयसाधनमर्थात् स्वर्गसाधनंम् । यथा- ऋत्विग्भ्यो निष्पादितो यज्ञो

दक्षिणया यजमानस्तेभ्यो यज्ञं निष्क्रीय तेन यज्ञेन दक्षिणां दिशं सह यमेन जयति

(बृ० उ० ३।९।२७ शा० भा० ) । २. अग्निपल्याः एकं नाम । यज्ञानन्तरमस्या-

स्तुष्ट्यै यजमान ऋत्विग्भ्यो धनं दीयते । अनेन यज्ञः सुसम्पन्नः सत्फलदो भवतीति

याज्ञिकाः । ३. स्तुतिजपार्चनध्यानादीनां कृते शुल्करूपेण याजकेभ्यो दीयमानं धनं

दक्षिणेति लौकिकाः ।
 
-
 

 
दक्षिणायनम् - अयनद्वयमुत्तरायणं, दक्षिणायनम्
अयनद्वयमुत्तरायणं दक्षिणाय
नं च । वर्षस्य षण्मासा

उत्तरायणरूपाः, षण्मासाश्च दक्षिणायनरूपाः । उत्तरायणे शरीरत्यागिनाम् उत्तमा गति-

र्भवति । ते पुनर्नावर्तन्ते । दक्षिणायने शरीरत्यागिनां नोत्तमा गतिर्भवति । एते

पुनरावर्तन्ते यथा- धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् । तत्र चान्द्रमसं

ज्योतिर्योगी प्राप्य निवर्तते (गी० ८।२५) । धूमः = धूमाभिमानिनी देवता, रात्रिः,

रात्र्यभिमानिनी देवता, शुक्ल: शुक्लपक्षाभिमानी देवता एताभिस्तिसृभिर्दे-

वताभिरुपलक्षितो यो
 
मार्गस्तत्र प्रयातः कर्मयोगी इष्टापूर्तादिकर्मफलं
 

भुक्त्वा पुनरावर्तते । यथा - ते धूममभिसम्भवन्ति धूमादूरात्रिं रात्रेरपरपक्षमपर-

पक्षात् यान् षड्दक्षिणेति मासांस्तानेते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः

पितृलोकम्.......... तमेवाध्वानं पुनर्निवर्तन्ते (छा० उ० ५/१०/५) । अधिकं

उत्तरायणशब्दे द्रष्टव्यम् ।
 
-
 

 
दमः
 
, दम
बाह्येन्दियसंयमः। यथा- दमो बाह्येन्द्रियोपशम: (गी० १०।४

शा० भा०) । दमो बाह्येन्द्रियाणां स्वविषयेभ्यो निवृत्तिः (तत्रैव म० सू०) । दमश्च

बाह्यकरणानामुपशमोऽन्तःकरणस्योपशमं शान्ति वक्ष्यति (तत्रैव ६।१६ शा० भा०) ।

दमो बाह्येन्द्रियसंयमः ऋतुकालाद्यतिरिक्ते मैथुनाभावः (तत्रैव म० सू० ) । दमो

बाह्येन्द्रियनियमः (तत्रैव नी० क०) । दमश्च बाह्यकरणानामुपशमोऽन्तःकरणस्योपशमं

शान्तिं वक्ष्यति (तत्रैव भाष्यो०)। दमो. बाह्येन्द्रियसंयमः (तत्रैव श्रीधरी) । यथा च

बहिरिन्द्रियनिग्रहो दमः (वे० प०) । दमो बाह्येन्द्रियाणां तद्व्यतिरिक्तविषयेभ्यो

निवर्तनम् (वे० सा०) ।
 
-