2023-03-12 05:01:03 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
२२३
तत् । न च जीवो नाम परमेश्वरादत्यन्तभिश्नश्चार इव राज्ञः । आत्मनेति विशेषणात् ।
उपाधिमात्रनिबन्धनत्वाच्च जीवभावस्य । तेन तत्कृतमपि नामरूपव्याकरणं परमेश्वर
कृतमेव भवति । परमेश्वर एव च नामरूपयोर्व्याकर्तेति सर्वोपनिषत्सिद्धान्तः ।
आकाशो ह वै नाम नामरूपयोर्व्याकरणम् । त्रिवृत्करणपूर्वकमेवेदमिह नामरूपव्याकरणं
विवक्ष्यते । प्रत्येकं नामरूपव्याकरणस्य तेजोऽबन्नोत्पत्तिवचनेनैवोक्तत्वात् । तच्च
त्रिवृत्करणमग्न्यादित्यचन्द्रविद्युत्सु श्रुतिर्दर्शयति- यदग्ने रोहितं रूपं तेजस्तद्रूपं यच्छुक्लं
तदपां यत्कृष्णं तदन्नस्य (छा० ६।४।१ ) इत्यादिना । ....भौमाम्भसतैजसेषु त्रिष्वपि
द्रव्येष्वविशेषेण त्रिवृत्करणमुक्तं भवति । इमास्तिस्रो देवतास्त्रिवृदेकैका भवति (छा०
६।३।४) इति । अविशेषेण चोपसंहारः (ब्र० सू० २१४/२० शा० भा० ) । यथा
च - यद्यपि आकाशाद्या भूतसृष्टिस्तथापि तेजोबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वात्
तत्र तेजसः प्राथम्यात्तेजः प्रथममुक्तम् (ब्र० सू० १/१/५ भाम०) । छान्दोग्ये हि
तासां त्रिवृतं त्रिवृतमेकैकामकरोदिति तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्-
करणमनन्तरं वक्ष्यति न गगनपवनयोस्तत्र च तेजः प्रथममिति स्वरूपोत्पत्ताविति
तदुपचार इति । सम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम् । तथापि युक्तियुक्तत्वाद्
वाचस्पतिमतं शुभम् । पृथिव्यबनलात्मत्वं गगने पवने च चेत् । रूपवत्त्वमहत्त्वाभ्यां
चाक्षुषत्वं प्रसज्यते । अर्थभूयस्त्वतः क्षित्याद्यविभावनकल्पने। व्यवहारपथा प्राप्ता
मुधा पञ्चकृतिर्भवेत् । अनपेक्ष्यफलं वेदसिद्धेत्येवेष्यते यदि । त्रिवृत्कृतिः श्रुता
पञ्चीकृतिर्न क्वचन श्रुता । तस्मात् सुष्ठ्च्यते तेजोऽबन्नानामेव त्रिवृत्करणस्य
विवक्षितत्वादिति ।पञ्चीकरणमेवम् - पञ्चभूतानि प्रथमम् .... । (तत्रैव वे० क० त०) ।
-
त्रुटि: - क्षणद्वयात्मकः कालः । यथा - अणुर्यौ परमाणुः स्यात् त्रसरेणुस्त्रयः
स्मृतः । जालार्करश्म्यवगतः खमेवानुपतन् नगात् । त्रसरेणुस्त्रिकं भुङ्क्ते यः कालः स
त्रुटिः स्मृतः । शतभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः । निमेषस्त्रिलवो ज्ञेयः
आम्नातस्ते त्रयः क्षणः । क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च । लघूनि
वै समाम्नाता दश पञ्च च नाडिका । ते द्वे मुहूर्तः प्रहरः षड् यामः सप्त वा नृणाम्
(भाग० ३।११।५-८) । त्रुटेरवयवः परमाणुरिति न्यायवैशेषिकविदः । त्रुटावेवावयवधारा
विश्रामात् त्रुटिरेव परमाणुरिति मीमांसकाः ।
-
दक्षः - १. भगवद्भजनादौ निरालसः । यथा- दक्षः भगवद्भजनादावनलसः
(गी० १२/१६ नी० क०) । २. चतुरः प्रत्युत्पन्नमतिः । यथा- दक्षः प्रत्युत्पन्नेषु