This page has not been fully proofread.

२२२
 
शाङ्कुरवेदान्तकोशः
 
प्रजायेय (तै० ३२।६) इत्यादिश्रुतेः । तत आकाशादीनि पञ्चभूतानि अपञ्चीकृतानि
तन्मात्रपदप्रतिपाद्यानि उत्पद्यन्ते । .... तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतानि
जायन्ते । तासां त्रिवृतं त्रिवृतमेकैकां करवाणि (छा० उ० ६ ।३।३) इति श्रुतेः
पञ्चीकरणोपलक्षणार्थत्वात् । विशदज्ञानार्थं ब्र० सू० १ । १ ।५वे० क० त० द्रष्टव्यः ।
 
पञ्चीकरणप्रकारश्चेत्थम् – आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्द्धा
विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्षु भूतेषु संयोजनम् । एवं वायुं द्विधा
विभज्य तयोरेकं भागं पुनः चतुर्द्धा विभज्य तेषां चतुर्णामंशानामाकाशादिषु संयोजनम् ।
एवं तेज आदीनामपि । तदेवमेकैकभूतस्यार्द्धं स्वांशात्मकमर्द्धान्तरं चतुर्विध-भूतमयमिति
पृथिव्यादिषु स्वांशाधिक्यात्पृथिव्यादिव्यवहारः । तदुक्तम्- वैशेष्यात्तु तद्वादस्तद्वादः
(ब्र० सू० २/४/२२) (वे० प० ७ प०) । यथा च - "छान्दोग्ये हि - तासां त्रिवृतं
त्रिवृतमेकैकामकरोदि''ति । तिसृणां देवतानां तेजोबन्नानामेव त्रिवृत्करण-मनन्तरं
वक्ष्यति, न गगनपवनयोः, तत्र च तेजः प्रथममिति स्वरूपोत्पत्तावपि तदुपचार इति ।
सम्प्रदायाध्वना पञ्चीकरणं यद्यपि स्थितम् । तथापि युक्तियुक्तत्वाद् वाचस्पतिमतं शुभम् ।
पृथिव्यपनलात्मत्वं गगने पवने च चेत् । रूपवत्त्वमहत्त्वाभ्यां चाक्षुषत्वं प्रसज्यते ।
अर्द्धभूयस्त्वतः क्षित्याद्यविभावनकल्पने । व्यवहारपथा प्राप्ता मुधा पञ्चीकृतिर्भवेत् ।
अनपेक्षस्य फलं वेदसिद्धेत्येषेष्यते यदि । त्रिवृत्कृतिः श्रुता पञ्चीकृतिर्न क्वचन श्रुता ।
तस्मात्सूच्यते । तेजोबन्नानामेव त्रिवृत्करणस्य विवक्षितत्वादिति । पञ्चीकरणमेवम् -
पञ्चभूतानि प्रथमं प्रत्येकं द्विधा विभज्यन्ते । तदेकैकमर्धं चतुर्धा क्रियते । ते च चत्वारो
भागा इतरभूतेषु चतुर्षु निक्षिप्यन्ते । तत्राकाशस्य स्वार्धेन भूतान्तरगतपादचतुष्केन च
पञ्चीकरणम् । एवं भूतान्तरेषु योजना । त्रिवृत्करणे तु त्रीणि भूतानि द्विधा विदार्य
प्रतिभूतमेकैकमर्द्धं द्विधा विस्फोट्येतरभूतद्वये योजनमिति (ब्र० सू० १/१/५ वे०
क० त० ) । यथा च - अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिः शब्दम् (ब्र० सू०
१ । १ । २४ शा० भा०) । आक्षेप्ता दूषयति नेति । न हि तत् क्वचिदपि उपयुज्यते
सर्वास्वर्थक्रियासु त्रिवृत्कृतस्यैवोपयोगादित्यर्थः ।.... एकैकं त्रिवृतं करवाणि इति तेजः
प्रभृत्युपसनामात्रविषया श्रुतिर्न संकोचयितुं युक्तेत्यर्थः (तत्रैव भाम०) । तेज आदिभूतं
सामान्यप्रवृत्ता त्रिवृत्करणरूपास्यमानतेजो विषयत्वेन संकचयितुं न युक्ताः । ततोऽन्यत्र
नेतुमयुक्तेत्यर्थः । तेज आदीनि परोक्षसाम्याद् देवताः । त्रिवृतं त्रिवलितम् (तत्रैव वे०
क० त० ) । यथा च न च गिरिनदीसमुद्रादिषु नानाविधेषु नामरूपेष्वनीश्वरस्य
जीवस्य व्याकरणसामर्थ्यमस्ति । येष्वपि चास्ति सामर्थ्यं तेष्वपि परमेश्वरायत्तमेव
 
-
 
-