2023-03-12 05:01:03 by ambuda-bot
This page has not been fully proofread.
शाङ्कवेदान्तकोशः
२२१
यथा – त्यागेनात्मा रक्षितः स्यान्निष्क्रियात्मस्वरूपावस्थानानुकूलत्वात्त्यागस्येत्यर्थः।"
(तत्रैव आ० गि०) ।
B
त्वम् - १. प्रत्यक् । यथा - अद्वितीयं ब्रह्मात्मत्वं विना त्वमर्थस्य प्रत्यक्त्वं नाम
सर्वान्तरत्वं तद् ब्रह्मणो व्यावृतस्य न निरङ्कुशं भवेदिति पदार्थशोधनेन त्वमर्थस्य
प्रत्यक्त्वं सिद्ध्येद् ब्रह्मात्मनैव सिद्ध्यतीत्यर्थः (सं० शा० ३/३०५ अ० टी० ) ।
२. त्वमर्थश्चत्वारः पदार्थाः । यथा - बुद्धिचिदाभासप्रतिबिम्बबिम्बाश्चतुष्टयम्
(सं० शा० ३ । २७६ सु० बो० ) । यथा च - त्वं पदार्थेऽपि चातुर्विध्यमाह - तथा
त्वमर्थेऽपीति । तमेवं चतुष्टयं विभजते - मतिरिति । मतिरन्तःकरणमुपाधिः (तत्रैव
अ० टी० ) । यथा च - त्वं पदार्थो हि प्रमाता प्रमाणाधीनतया प्रमित्या प्रमेयं घटादि
व्याप्नोतित्यविद्याविलसितम् (ब्र० सू० १/१/४ भाम० ) ।
-
त्रिणाचिकेतः – त्रिणाचिकेतानामकविशेषाग्न्यनुष्ठानवान् । यथा- त्रिः कृत्वो
नाचिकेतोऽग्निश्चितो येन स त्रिणाचिकेतः तद्विज्ञानस्तदध्ययनस्तदनुष्ठानवान् ।
त्रिभिः मातृभिः पितृभिः आचार्यैरेत्य प्राप्य सन्धि समाधानं सम्बन्धं मात्राद्यनुशासनं
यथावत् प्राण्येत्येतत् (का० उ० १/१/१७ शां० भा० ) ।
-
त्रिदण्डी – मनोवाक्कायरूपत्रिदण्डनियन्ता । यथा - तेन योगेन युक्तः पुरुषः
प्रथमं विशुद्धात्मा विशुद्धो रजस्तमोभ्यामकलुषित आत्मान्त करणः सन् । विजितात्मा
स्ववशीकृतदेहस्ततो जितेन्द्रियः स्ववशीकृतबाह्येन्द्रियः । एतेन मनूक्तत्रिदण्डी कथितः
वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते नियता दण्डाः स त्रिदण्डीति
कथ्यते । इति वागिन्द्रियं बाह्येन्द्रियोपलक्षणम् (गी० ५।७ म० सू०) ।
-
-
त्रिपुटी – मातृमितिमेयत्रिपुटसम्बद्धं ज्ञानम् । यथा- त्रिविधं चैतन्यं विषय-
चैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम्,
अन्तःकरणवृत्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम्, अन्तःकरणावच्छिन्नं चैतन्यं
प्रमातृचैतन्यम् (वे० प० १ प०) । इदमेव मितिमातृमेयविषयिका प्रमेत्युच्यते ।
यथा - प्रभाकरमते सर्वस्य ज्ञानस्य मितिमातृमेयविषयकत्वात् त्रिपुटीप्रत्यक्षतेति
(त० प्र० ख० ४) ।
-
-
त्रिवृत् पञ्चीकरणं त्रिवृत्करणं च द्विधा भवति । अपञ्चीकृतैः
पृथ्वीजलतेजोवाय्वाकाशैः पञ्चीकृतं भवति तथा पृथ्वीजलतेजोभिः त्रिवृत्करणं
भवति । पञ्चीकरणत्रिवृत्करणयोः प्रकारश्चेत्थम् । यथा - "सोऽकामयत बहु स्यां