This page has not been fully proofread.

२२०
 
शाङ्कुरवेदान्तकोशः
 
सङ्गत्य ततस्तेन सह तदीयां नावं गत्वा पारं प्राप्नोति, तथा प्राणाः प्रथमं जीवेन सङ्गत्य
- ततस्तेन सह तेजःशब्दोक्तं त्रिवृत्कृतभूतान्तरसंसृष्टं तदीयं सूक्ष्मशरीरं गत्वा तेन
सह परां देवतां प्राप्नोतीति जीवस्य प्राणतेजोमध्ये निवेशे दृष्टान्तः । यथा सारथिः
प्रथमं राजकीयं रथं स्वयमारूढ़ो राजसमीपं गत्वा पश्चाद् रथारूढ़ेन तेन सहितस्तदभि-
मतदेशे प्राप्नोति एवं जैवं सूक्ष्मशरीरं प्राणः प्रथमं प्राप्य ततस्तप्राप्तेन जीवेन सहितः
परदेवतां प्राप्नोतीति जीवस्य तेजोनन्तरनिवेशे दृष्टान्तः (ब्र०सू० ४।२।४ क० त० ) ।
(ग) प्रगल्भता । यथा - "तेजस्तु प्रागल्भ्यम् अधृष्यत्वम् ।" (गी० म० श्लो० १
आ० गि०) इत्यद्वैतिनः। न्यायादिविदस्तु प्रकाश इति । लौकिकास्तु पराक्रमादि ।
यथा- तेजस्वी पुरुषः आदि ।
 
-
 
त्यागः – १. संन्यासः । यथा - त्यागः संन्यासः पूर्वं दानस्योक्तत्वात् (गी०
१६।२शां० भा०) । यथा - त्यागः सर्वकर्मसंन्यासः पूर्वं दानस्योक्तत्वात् (तत्रैव नी०
क०) दानस्य प्रागुक्तेस्त्यागः संन्यासः (तत्रैव म० सू० ) । यथा - "त्यागः संन्यासः ।"
(तत्रैव भाष्यो) । २. औदार्यम् । यथा - त्यागः औदार्यम् (तत्रैव श्रीधरी) । ३. आत्म-
सम्बन्धितया प्राप्तस्य फलस्य त्यागः यथा - नित्यनैमित्तिकानामनुष्ठीयमानानां
सर्वकर्मणामात्मसम्बन्धितयां प्राप्तस्य फलस्य त्यागः परित्यागः फलपरित्यागो वार्थो
वक्तव्यः सर्वथा परित्यागमात्रं संन्यासत्यागशब्दयोरेकोऽर्थो तेषां परित्याग इति (गी०
१८/२ शा० भा०) । ४. काम्यकर्मत्यागः । यथा - काम्यकर्मत्यागः संन्यासत्वेन
नित्यादिकर्मणां फलानभिसन्धानं च त्यागत्वेन स्तूयत इति (तत्रैव नी० क० ) ।
५. सर्वकर्मफलत्यागः । यथा - सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः सर्वेषां काम्यानां
नित्यानाञ्च प्रतिपदोक्तफलत्यागं सत्वशुद्धार्थितया विविदिषासंयोगेनानुष्ठाने विचक्षणा
विचारकुशलास्त्यागं प्राहुः (तत्रैव म० सू०) । यथा च - "नित्यनैमित्तिकानामनुष्ठीय-
मानानां सर्वकर्मणामात्मंसम्बन्धितया प्राप्तस्य फलस्य परित्यागः सर्वकर्मफलत्यागः तं
त्यागं त्यागशब्दार्थं विचक्षणाः निपुणाः पण्डिताः कथयन्ति (तत्रैव भाष्यो) । यथा -
सर्वेषां काम्यानां नित्यनैमित्तिकानां च कर्मणां फलमात्रत्यागं प्राहुस्त्यागं विचक्षणाः
निपुणाः न तु स्वरूपतः कर्मत्यागम् (तत्रैव श्रीधरी) । ६. एषणात्रयत्यागः न तु
कर्मत्यागः । यथा- जगत्यामित्युपलक्षणार्थत्वात्सर्वमेव नामरूपकर्माख्यं विकारजातं
परमार्थसत्यात्मभावनया त्यक्तं स्यात् । एवमीश्वरात्मभावनया युक्तस्य पुत्राधेषणात्रय-
संन्यास एवाधिकारो न कर्मसु । तेन त्यक्तेन त्यागेनेत्यर्थ: (ई० उ० १ शां० भा०) ।
 
-
 
-
 
-