2023-03-22 10:15:57 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
-
जागरितस्वप्नसुषुप्त्यवस्थात्रयवद्विलक्षणं चैतन्यं तुरीयचैतन्य-
मुच्यते । यथा - "नान्तः प्रज्ञं न बहिष्प्रज्ञं नोभयतः प्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् ।
अदृष्टमव्यवहार्यमग्राह्यमलक्षणमचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं
शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः (मा० उ० ७) । यथा च -
वनवृक्षतदवच्छिन्नाकाशयोर्जलाशयजलतद्गतप्रतिबिम्बाकाशयोर्वाऽऽधारभूतानुपहिता-
काशवदनयोरज्ञानतदुपहितचैतन्ययोराधारभूतं यदनुपहितं चैतन्यं तत्तुरीयमुच्यते ।शिव-
मद्वैतं चतुर्थं मन्यन्ते इत्यादिश्रुतेः । इदमेव तुरीयं शुद्धं चैतन्यमज्ञानादितदुपहितं
चैतन्याभ्यां तप्ताय पिण्डवदविविक्तं सन्महावाक्यस्य वाच्यं विविक्तं तत्त्वमिति
चोच्यते (वे० सा० ) ।
।
तुरीयप्रलयः
आत्यन्तिकः सर्वमोक्षः । यथा - तुरीयप्रलयस्तु ब्रह्मसाक्षात्कार-
निमित्तकः सर्वमोक्षः । स चैकजीववादे युगपदेव, नानाजीववादे तु क्रमेण । 'सर्व
एकीभवन्ति' इत्यादिश्रुतेः तत्राधास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः, तुरीयस्तु
ज्ञानोदयनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः (वे० प० ७ प०) ।
२१९
-
-
तुल्यवित्तिवेद्यत्वम्
समानज्ञानज्ञेयत्वम् । यथा- प्राभाकरमते आक्षेपाद्
जातिविशिष्टव्यक्तिप्रतीतिः । एतन्मते जातौ व्यक्तौ च न शक्तिः किन्तु जातिविषयक
शक्तिज्ञानमेव जातिविशिष्टव्यक्तिविषयकशाब्दबोधे कारणम् । व्यक्तिशक्तिस्तु
स्वरूपसती (न तु ज्ञाता) उपयुज्यते । नैयायिकमते एकज्ञानविषयत्वम् । यथा -
वह्निमदवृत्तिर्धूमाभावः इति ज्ञाने धूमाभावे वह्निमदवृत्तित्वस्य भासने बह्रौ धूमा-
भावववृत्तित्वमपि तुल्यवित्तिवेद्यतया नियमतो भासते।
-
तूलाज्ञानम्
अज्ञानं द्विविधं - मूलाज्ञानं तूलाज्ञानं च। मूलाज्ञानं जगत्कारणम् ।
तूलाज्ञानं च प्रतिदिनं जायमानं रज्जौ सर्पादिभ्रमरूपम् । तूलं कार्पासकं तद्वद्
अज्ञानम् । यद्धि – ब्रह्मभिन्नज्ञाननाश्यं भवति । यथा - आवरणविक्षेपशक्तियुक्तं
ब्रह्मज्ञानान्यज्ञाननाश्यमूलाज्ञानतादात्यानापन्नमज्ञानम् । अवस्थाविशेषस्तु तादृशं
मूलाज्ञानतादात्यपन्नम् । वक्ष्यति हि अज्ञानावस्थायास्तदभिन्नाया इति (अ० सि० १
गौ० ब्र०) । अधिकं तु अविद्याशब्दे द्रष्टव्यम् ।
-
-
-
तेजः
१ (क) ब्रह्म । यथा- तेजसेति ब्रह्मण एवायं निर्देशः । श्रुत्यन्तरे
"ब्रह्मैव तेज एव" (बृ० उ० ४।४।७) इति तेजश्शब्दस्य ब्रह्मणि प्रयुक्तत्वात्
(ब्र० सू० ३।२।७ शा० भा०) । (ख) सूक्ष्मशरीरम् । यथा - पान्थः प्रथमं नाविकेन