This page has not been fully proofread.

शाङ्कवेदान्तकोशः
 
तुच्छम् - १. (क) अनिर्वचनीयम् । यथा मरीचिषु तोयनिर्भासप्रत्ययः । यथा -
अत्र ब्रूमः - निस्तत्त्वं चेन्नानुभवगोचरः, तत् किमिदानीं मरीचयोऽपि तोयात्मना
सत्तत्त्वाः यदनुभवगोचराः स्युः । न सत्तत्त्वाः तदात्मना मरीचीनामसत्त्वात् । द्विविधं
च वस्तूनां तत्त्वं सत्त्वमसत्त्वं च । तत्र पूर्वं स्वतः परं तु परतः । यथाहुः स्वरूपपर-
रूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किञ्चिद् रूपं कैश्चित्कदाचन । इति तत्
किं मरीचिषु तोयनिर्भासप्रत्ययस्तत्त्वगोचरः । तथा च समीचीन इति न भ्रान्तो नापि
'बाध्येत । अद्धा न बाध्येत, यदि मरीचीनतोयात्मतत्त्वान् अतोयात्मना गृह्णीयात् ।
तोयात्मना तु गृह्णन् कथमभ्रान्तः कथं वाऽबाध्यः । हन्त तोयाभावात्मनां मरीचीनां
तोयभावात्मत्वं तावन्न सत् तेषां तोयाभावादभेदेन तोयभावात्मतानुपपत्तेः ।
नाप्यसत्, वस्त्वन्तरमेव हि वस्त्वन्तरस्यासत्त्वमास्थीयते- भावान्तरमभावोऽन्यो
न कश्चिदनिरूपणादिति वदद्भिः । न चारोपितं रूपं वस्त्वन्तरम् । तद्धि मरीचयो वा
भवेत् गङ्गादिगतं तोयं वा । पूर्वस्मिन् कल्पे मरीचय इति प्रत्यय: स्यान्न तोयमिति ।
उत्तरस्मिंस्तु गङ्गायां तोयमिति स्यात्, न पुनरिहेति । देशभेदास्मरणे तोयमिति
स्यान्नपुनरिहेति । न च इदमत्यन्तमसदन्निरस्तसमस्तस्वरूपमलीकमेवास्त्विति
साम्प्रतम् । तस्यानुभव-गोचरत्वानुपपतेरित्युक्तमधस्तात् । तावन्न
तदसत्, परस्पर-विरोधादित्यनिर्वाच्यमेवारोपणीयं मरीचिषु तोयमास्थेयम् । तदनेन
क्रमेणाध्यस्तं तोयं परमार्थतोयमिव । अत एव पूर्वदृष्टमिव, तत्त्वतस्तु न तोयं
न च पूर्वदृष्टं किन्वनृतमनिवार्च्यम् । एवं देहेन्द्रियादिप्रपञ्चोऽप्यनिर्वाच्यः । अपूर्वोऽपि
पूर्वमिथ्याप्रत्ययोपदर्शित इव परत्र चिदात्मन्यध्यस्त इति उपपन्नम् (ब्र० सू०
अध्यासभाम०) । अत्र वेदान्तकल्पतरौ - तोयाभावात्मकमरीचिरूपे यदारोपितं तोयं
तत् तत्र सदसद्वेति विकल्प्याद्यं निरस्यति हन्तेति । द्वितीये तु किं तुच्छम् असत्
सदन्तरं वा । नाद्योऽपराद्धान्तात् । न द्वितीय इत्याह वस्त्वन्तरमेवेति । अस्मिन्
हि भ्रमे मरीचयस्तोयं च द्वे वस्तुनी भासेते । तत्र मरीचितोयतादाम्यं यदि वस्तु
तर्हि तोयाद्वस्तुनो वस्त्वन्तरभूता मरीचयो वा स्युर्मरीचिभ्यो वस्त्वन्तरं तोयं वा
स्यान्नान्यत् । अन्यस्यान्यस्मिन् भ्रमेऽनवभासनादुभयत्र दूषणमाह । अत्र कल्पतरु-
परिमले - किं तुच्छमसत् सदन्तरं वेति । असच्छब्दस्यालीकमर्थमभिप्रेत्याद्यो
विकल्पः । अभावामर्थमभिप्रेत्य द्वितीयो विकल्पः । एवं हि टीकायां द्वितीयविकल्प-
विवरणे भावान्तरमभाव इति तन्मतप्रदर्शनं सङ्गच्छते । (ख) केवलं शब्दमात्रप्रत्ययः ।
यथा शशशृङ्गं वन्ध्यापुत्रादि अत्यन्तासत्यपि ज्ञानमर्थे शब्दः करोति हि इति
सिद्धान्तात् ।
 
सत् नापि
 
-
 
२१८