This page has been fully proofread once and needs a second look.

शाङ्करवेतादान्तकोशः
 
२१७
 
-
 
त्म्यम्, तादात्म्यम् -
१. ऐक्यम् । यथा तादाल्येनेति ऐक्येन (ब्र० सू० १ । १ । २

वे० क० त०) इति अद्वैतवेदान्तिनः । २. (क) तद्वृत्तिधर्मविशेषः । यथा

तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताको योऽभावः सोऽन्योन्याभावः इत्यत्र घटत्वमेव

घटतादात्म्यम् । तादात्यं च सम्बन्धताविशेषः प्रतीतिसाक्षिकः । घटान्योन्याभावबोधे

घटत्वं सम्बन्धविधया प्रकारविधया च प्रतियोगितावच्छेदकमिति द्विविधतया

घटत्वस्य मानम् । तेन तदवच्छिन्नप्रतियोगिताकश्चान्योन्याभाव इति लक्षणसमन्वयः ।

(ख) तद्द्वृत्त्यसाधारणो धर्मः । इति न्यायवैशेषिकाः ।
 
-
 
-
 

 
तापकः, तापक
विषयोऽर्थः प्रतिकूल : सन् अनर्थो भूत्वा तप्यं जीवं तापयतीति

तापक: तप्यशब्दे द्रष्टव्यम् । अनर्थ इत्युच्यते । यथा - अर्थिनोऽनुकूलोऽर्थः

प्रतिकूलोऽनर्थस्ताभ्यामेकः पर्यायेणोभाभ्यां सम्बध्यते । तत्रार्थस्याल्पीयस्त्वाद्

भूयस्त्वाच्वानर्थस्योभावप्यर्थानर्थावनर्थ एवेति तापकः स उच्यते । तप्यस्तु पुरुषो

य एकः पर्यायेणोभाभ्यां सम्बध्यत इति तयोस्ताप्यतापकयोरेकात्मकतायां मोक्षा-

नुपपत्तिः । ....अतश्चाविद्याकृतोऽयं तप्यतापकभावो न पारमार्थिक इत्यभ्युप-

गन्तव्यमिति (ब्र० सू० २।२।१० शा० भा०) । यथा च तथा हि अर्थोऽप्यु-

पार्जनरक्षणक्षयरागबृद्धिहिंसादोषदर्शनादनर्थः सन्नर्थिनं दुनोति तदर्थी तप्यस्तापकार्थः ।

तौ चेमौ लोके प्रतीतभेदौ । ... अस्मत्पक्षे त्वदोष इत्याह - औपनिषदस्य त्विति । यथा

हि मुखमवदातमपि मलिनादर्शतलोपाधिकल्पितप्रतिबिम्बभेदं मलिनतामुपैति । न च तद्

वस्तुतो मलिनं न च बिम्बात् प्रतिबिम्बं वस्तुतो भिद्यते, अथ तस्मिन् प्रतिबिम्बे

मलिनादर्शोपाधानान्मलिनतापदं लभते । तथा चात्मनो मलिनं मुखं पश्यन्

देवदत्तस्तप्यते । यदा तूपाध्ययनयाद् बिम्बमेव कल्पनावशात् प्रतिबिम्बं तच्चावदात-

मिति तत्त्वमवगच्छति । तदास्य तापः प्रशाम्यति । न च मलिनं मे मुखमिति ।

एवमविद्योपाधानकल्पितावच्छेदो जीवः परमात्मप्रतिबिम्बकल्पः कल्पितैरेव शब्दादिभिः

सम्पर्कात् तप्यते । न तु तत्त्वतः परमात्मनोऽस्ति तापः । यदा तु तत्त्वमसीति

वाक्य श्रवणमननध्यानाभ्यासपरिपाकप्रकर्षपर्यन्तजोऽस्य साक्षात्कार उपजायते । तदा

जीवः शुद्धबुद्धस्वभावमात्मनोऽनुभवन् निर्मृष्टनिखिलवासनाक्लेशजालः केवलः

स्वस्थो भवति । न चास्य पुनः संसारभयमस्ति । तद्धेतोरवास्तवत्वेन समूलकाषं

कषितत्वात् (तत्रैवभाय०) ।
 

 
तितिक्षा - , तितिक्षा
शीतोष्णादिद्वन्द्वसहनं सहिष्णुता (वे० प० ८५०) ।