2023-03-12 05:01:02 by ambuda-bot
This page has not been fully proofread.
२१६
शाङ्करवेदान्तकोशः
धर्मस्य त्रायते महतो भयादिति मदुक्तं दिक्दर्शकमल्पबुद्धित्वात् स्त्रीस्वभावेन त्वया
विस्मृत्य पृष्ठमिति पार्थेति सम्बोधनं ध्वनितम् (तत्रैव भाष्यो०) ।
-
-
तात्पर्यम् - (क) तत्प्रतीतिजननयोग्यत्वं तात्पर्यम् । यथा - क्रमप्राप्तं तात्पर्यं
निरूप्यते । तत्र तत्प्रतीतीच्छ्योच्चारितत्वं न तात्पर्यम् । अर्थज्ञानशून्येन
पुरुषेणोच्चारिताद् वेदार्थप्रत्ययाभावप्रसङ्गात् । अयमध्यापको व्युत्पन्न इति
विशेषदर्शनेन तत्र तात्पर्यभ्रमस्याप्यभावात् । न चेश्वरीयतात्पर्यज्ञानात् तत्र
शाब्दबोध इति वाच्यम् । ईश्वरानङ्गीकर्तुरपि तवाक्यार्थव्युत्पत्तिदर्शनात् । उच्यते-
तप्रतीतिजननयोग्यत्वं तात्पर्यम् । गेहे घट इति वाक्यं गेहे घटसंसर्गप्रतीतिजनन-
योग्यत्वं न तु पटसंसर्गप्रतीतिजननयोग्यमिति तवाक्यं घटसंसर्गपरं न तु पट-
संसर्गपरमित्युच्यते । ननु सैन्धवमानय इत्यादिवाक्यं यदा लवणानयनप्रतीतीच्छ्या
प्रयुक्तं तदाश्वसंसर्गे प्रतीतिजनने स्वरूपयोग्यतासत्त्वाल्लवणपरत्वज्ञानदशायामपि
अश्वादिसंसर्गज्ञानापत्तिरिति चेत, न । तदितरप्रतीतीच्छ्यानुच्चरितस्यापि तात्पर्यं
प्रति विशेषणत्वात् । तथा च यवाक्यं यत्प्रतीतिजननस्वरूपयोग्यत्वे सति यदन्यप्रती-
तीच्छया नोच्चरितं तवाक्यं तत्संसर्गपरमित्युच्यते । ......तच्च तात्पर्यं वेदे
मीमांसापरिशोधितन्यायादेवावधार्यते, लोके तु प्रकरणादिना । तत्र लौकिकवाक्यानां
मानान्तरावगतार्थानुवादकत्वम् । वेदे तु वाक्यार्थस्यापूर्वतया नानुवादकत्वम् (वे० प०
४ प०) इत्यद्वैतिनः । (ख) तत्प्रतीतीच्छ्योच्चारितत्त्वं तात्पर्यम् । तात्पर्यज्ञानं च
वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् । प्रकरणादिकं च तात्पर्यग्राहकम् (त० सं० श०
ख० दी०)। सैन्धवमानयेत्यादौ सैन्धवपदम् आनयनपदार्थे लवणं प्रत्याययतु
इत्याकारिकाया वाक्यप्रयोक्तुरिच्छायाः सत्त्वादत्र सैन्धवशब्दस्य लवणार्थे तात्पर्यमिति
नैयायिकादयः । तात्पर्यग्राहकाणि- संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थ:
प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः । सामर्थ्यमौचिती देश: कालो व्यक्तिः स्वरादयः ।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः (वा०प० श्लोकाः) । उदाहरणानि काव्य-
प्रकाशे द्वितीयोल्लासेऽपि द्रष्टव्यानि ।
तात्पर्या वृत्तिः - तात्पर्यार्थोऽपि केषुचित् (का० प्र० २।६) तात्पर्यार्थो विशेष-
वपुरपदार्थोऽपि वाक्यार्थः समुल्लसतीति मम्मटाचार्यवचनेन तात्पर्या वृत्तिः सूचिता ।
तन्त्रवार्तिकस्य न्यायसुधाटीकायां तृतीयावृत्तिरङ्गीकृता । किन्तु अद्वैतवेदान्तिभिः
शक्तिर्लक्षणा चेति वृत्तिद्वयमेव स्वीक्रियते । यथा - पदार्थश्च द्विविधः- शक्यो
लक्ष्यश्चेति । (वे० प० ४ १०) तात्पर्यमिति शब्दो द्रष्टव्यः ।