This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
२१५
 
४. यथायोग्यं सदाचारपालनम् । यथा- ऋतं च स्वाध्यायप्रवचने च । सत्यं च

स्वाध्यायप्रवचने च । इत्यादि (तै० उ० १।९) । अयमर्थ:- स्वाध्यायप्रवचने तु

आवश्यके एव किन्तु स्वाध्यायप्रवचनाभ्यां सह यथायोग्यं सदाचारपालनमपि

कर्तव्यम् । एवमेव स्वाध्यायादिभ्यां सह सत्यतपोदमादि अपि ।
 
-
 

 
तप्यः - , तप्य
जीवः । यथा - अर्थोऽप्युपार्जनरक्षणक्षयरागवृद्धिहिंसादोषदर्शनादनर्थः

सन् अर्थिनं दुनोति तदर्थी तप्यस्तापकश्चार्थः (ब्र० सू० २/२/१० भाम० ) ।
 

 
तमः
 
-
 
-
 
, तमस्
१. मृत्युः । यथा - मृत्युर्वै तमः सर्वं ह्यज्ञानमावरणात्मकत्वात् तमः ।

तदेव च मरणहेतुत्वान् मृत्युः । (बृ० आ० १ ।३।२८ शा० भा० ) । तमसो मा

ज्योतिर्गमय, मृत्योर्मामृतं गमयेति स यदाहासतो मा सद्गमयेति । मृत्युर्वा असत्

सदमृतं मृत्योर्मामृतं गमयामृतं वा .... (बृ० आ० उ० १ ।२।२८) २. तमो भावरूपः

पदार्थः । न तु तेजसोऽभावस्तमः अभावरूपः पदार्थः । नैयायिका वैशेषिकाश्च

तेजसोऽभावस्तम इति स्वीकुर्वन्ति । अविद्या च तमोरूपा । तमसोऽभावपदार्थत्वे

तमोरुपया अविद्यया ज्ञानावरणं न सम्भवेत् । भावपदार्थो यथा- तस्मात् षट्ष्वपि

भावेष्वनन्तर्भावात् तद्भावे वोपलम्भकाभावाच्च प्रभाभावस्तम इति । अत्रोच्यते-

तमालश्यामलज्ञाने निर्वाधे जाग्रति स्फुटे। द्रव्यान्तरं तमः कस्माकस्मादपलप्यते ।

५. अस्ति हि तमस्तमालमालाश्यामलमिति प्रतीतिः । न चाप्रतीतावेवायं प्रतीतिभ्रमः ।

तद्व्यवहारस्य तप्रतीतिमन्तरेणानुपपत्तेः । .... वैपरीत्याद् आलोकागमने गच्छति

छायेति प्रतीतेर्गमने चागच्छतीति प्रतीतेः तद्विरोधित्वाच्च तदनुविधानुपपत्तेः ।

किञ्च – चक्षुः प्रकाशनाजन्यरूपववीक्षणक्षमम् । रूपग्राहीन्द्रियत्वेन यथैव स्पर्शनेन्द्रियम् ।

६. तत्सिद्धमेतत्तमो द्रव्यान्तरमिति । इत्थमालोकवदेव भावरूपाज्ञानतमोविरोधिन

आत्मनो जगदवभासकस्य ज्योतिः शब्दवाच्यत्वात् (त० प्र० १ प० तम० ) ।

३. अविद्या - यथा - द्विधा अविद्या तमः (ब्र० सू० ४/४/२२ भाम०) ।
 
}
 
-
 

 

 
तातः, तात
पिता पुत्रः शिष्यश्च । यथा - हे तात तनोत्यात्मानं पुत्ररूपेण पिता

तात उच्यते । पितैव पुत्र इति पुत्रोऽपि तात उच्यते । शिष्योऽपि पुत्रतुल्य उच्यते ।

यतो न गच्छति (गी० ६।४० शा० भा०) । यथा च - तनोत्यात्मानं पुत्ररूपेणेति

पिता तात उच्यते । स्वार्थिकेऽणि तत एव तातः राक्षसवायसादिवत् । पितैव च पुत्ररूपेण

भवतीति पुत्रस्थानीयस्य शिष्यस्य तातेति सम्बोधनं कृपातिशयसूचनार्थम् (तत्रैव

म० सू०) । यथा च - हे तातेति - नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते । स्वल्पमप्यस्य
 
-