This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
विशेषणात्यन्तासत्त्वम् । तस्माद् धर्मान्तरेणैवायमसद्व्यपदेशः प्रागुत्पत्तेः कार्यस्य ।
नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् (ब्र०सू० २।१।१७ शा०भा० ) ।
 
२१४
 
-
 
तन्त्रम् – १ . विवक्षितार्थज्ञापकं साधनं च तन्त्रम् । यथा - तन्त्रं साधनमुद्दिष्टं
तन्त्रं ज्ञापकमेव च । यथा ईक्षतेर्नाशब्दम् । (ब्र० सू० ११ १५) इत्यत्र ईक्षतेरित्यत्र ।
अत्र ईक्षतेरित्यत्र तन्त्रम् । तेन ईक्षतेरित्यस्य आवृत्तिः । अशब्दं प्रधानं न जगत्कारणम्
ईक्षतेस्तथा प्रधानमशब्दम् (अवैदिकम्) न ईक्षतेः (वेदोक्तेक्षणकर्तृत्वाभावात्)
इति वारद्वयम् ईक्षतेर्हेतुत्वम् । अत एव च अस्मिन् सूत्रे ईक्षतेरिति पञ्चम्यन्तपदस्य
प्रथमं प्रयोगः । अन्यथा (तत्) शास्त्रयोनित्वात् तत्तु समन्वयादित्यादिवत् पञ्चम्यन्तहेतु-
पदस्य प्रथमं प्रयोगो न स्यात् । २. उभयार्थैकप्रयोगस्तन्त्रम् । यत्र प्रधानकर्मणां
युगपद्भावः। इति पूर्वमीमांसकाः । ३. कर्मणां युगपद्भावस्तन्त्रमिति धर्मशास्त्रविदः
(कात्या० श्रौ० १।७१) । ४. शास्त्रविशेषः । यथा - कृत्स्नस्य षष्टितन्त्रस्य (सां०
का० ७२) । यथा च शिवाधुक्तानि तन्त्रशास्त्राणि । ५. ग्रन्थभागविशेषः । यथा पञ्च
तन्त्रग्रन्थे मित्रभेदादि । ६. सकृदुच्चरितस्य एकस्य शब्दस्य अनेकार्थप्रतिपादकत्वम्
इति वैयाकरणाः । ७. तन्मते विस्तार्यते बहूनामुपकारो येन सकृत्प्रवर्तितेन तदिदं
तन्त्रम् (जै० न्या० ११।१।१ ) ।
 
तन्निष्ठः – ब्रह्मपरायणः । यथा यत्परज्ञानं प्रकाशितं तस्मिन् गता
बुद्धिर्येषां ते तद्बुद्धयस्तदात्मानस्तदेव परं ब्रह्मात्मा येषां ते तदात्मानस्तन्निष्ठाः ।
निष्ठाभिनिवेशस्तात्पर्यं सर्वाणि कर्माणि संन्यस्य ब्रह्मण्येवावस्थानं येषां ते
तन्निष्ठास्तत्परायणाश्च (गी० ५।१७ शा० भा०) ।
 
-
 
तपः – १ . ब्रह्मणो ज्ञानमयं तपः । यथा - यः सर्वज्ञः स सर्वविद् यस्य ज्ञानमयं
तपः । तस्मादेतद् ब्रह्म नाम रूपमन्नं च जायते (मुण्ड० १।१।९) । २. धर्मः परमात्मा
च । यथा- तपो धर्मस्तद्रूपे मयि तपस्विनः प्रोक्ताः (गी० ७।९ नी० क०) । तपस्विषु
नित्यं तपोयुक्तेषु वानप्रस्थादिषु यत्तपः शीतोष्णक्षुत्पिपासादिद्वन्द्वसहनसामर्थ्यरूपं
तदहमस्मि । तद्रूपे मयि तपस्विनः प्रोक्ताः (तत्रैव म० सू०) । ३. धर्मार्थं नियमपूर्वकं
शरीरपीडनम् । यथा – तप इन्द्रियसंयमपूर्वकं शरीरपीडनम् (गी०१०/५ शा० भा० ) ।
शास्त्रीयमार्गेण कायेन्द्रियशोषणम् (तत्रैव म० सू०) । स्वतेजसा चैतन्यज्योतिषा इदं
विश्वं विश्वरूपं तपन्तं प्रकाशयन्तम् । अनादित्वादिसर्वविशेषणविशिष्टं विश्वं
तपिकर्मीभूतं तापयन्तं त्वां परज्योतीरूपं पश्यामि जानामि (गी० ११।१९ शा०भा० ) ।