This page has not been fully proofread.

तत्त्वदर्शनम्
(ब्र० सू० ४।४।२ शा० भा० ) ।
 
शाङ्करवेदान्तकोशः
 
ब्रह्मसाक्षात्कारः । यथा - निरुपाधिकब्रह्मसाक्षात्कारस्तत्त्वदर्शनम्
 
-
 
-
 
तत् त्वम् असि - तदिति ब्रह्मणो निर्देशस्त्वमिति जीवनिर्देशः । सर्वज्ञत्वादि-
विशिष्टं चैतन्यं तत्पदवाच्यम्, अल्पज्ञत्वादिविशिष्टं चैतन्यं त्वमुपदवाच्यम् ।
जहदजहल्लक्षणया सर्वज्ञत्वाल्पत्वादिविशेषणानवच्छिन्नं लक्ष्यस्वरूपं चैतन्यमात्रम् ।
 
-
 
तेन चैतन्यचैतन्ययोरीश्वरजीवयोरैक्यं तत्त्वंपदार्थः । यथा- तच्चैक्यं तत्त्वंपदार्थ-
ज्ञानाधीनज्ञानमिति तत्पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते ।.... तत्र तत्त्वंपदवाच्ययो-
विशिष्टयोरैक्यायोगेऽपि लक्ष्यस्वरूपयोरैक्यमुपपादितमेव । अत एव तत्प्रतिपाद-
कतत्त्वमस्यादिवाक्यानामखण्डार्थत्वं सोऽयमित्यादिवाक्यवत् (वे० प० ७ प्र०) ।
यथा च - आभ्यामध्यारोपापवादाभ्यां तत्त्वंपदार्थशोधनमपि भवति । तथाहि
अज्ञानादिसमष्टिरेतदुपहितं सर्वज्ञत्वादिविशिष्टं चैतन्यमेतदनुपहितं चैतत् त्रयं
तप्तायःपिण्डवदेकत्वेनावभासमानं तत्पदवाच्यार्थो भवति । एतदुपाध्युपहिता-
धारभूतमनुपहितं चैतन्यं तत्पदलक्ष्यार्थो भवति । अज्ञानादिव्यष्टिरेतदुपहिताल्पज्ञत्वादि-
विशिष्टचैतन्यमेतदनुपहितं चैतन्यं तप्ताय पिण्डवदेकत्वेनावभासमानं त्वम्पदार्थवाच्यार्थो
भवति । एतदुपहिताधारभूतमनुपहितं प्रत्यगानन्दं तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थो
भवति । चिन्मात्रमेतत् त्रयं तप्ताय पिण्डवदविविक्तं तत्पदवाच्यार्थः । एतदाधार-
भूतमपि एतद्भिन्नमनुपहितं चैतन्यं चिन्मात्रं तत्पदलक्ष्यार्थः । एवमज्ञानादिव्यष्टिस्त-
दुपहितं प्राज्ञादिचैतन्यं तदनुपहितं चैतन्यं चिन्मात्रं एतत्त्रयं तप्ताय पिण्डवदविविक्तं
त्वम्पदवाच्यार्थः । अज्ञानादिव्यष्टिस्तदुपहितं प्राज्ञादिचैतन्यमेतदाधारभूतमपि
 
एतद्भिन्नमनुपहितं प्रत्यगानन्दरूपं तुरीयं चैतन्यं त्वम्पदलक्ष्यार्थः । एतेनानुपहितं
शुद्धं चैतन्यं तत्पदत्वम्पदयोर्लक्ष्यार्थः । तत्पदं त्वम्पदं च लक्षकमिति भावः
(वे० सा० ) ।
 
२१३
 
तद्बुद्धिः
 
सच्चिदानन्दघनरूपान्तःकरणवृत्तिमान् पुरुषः । यथा - ज्ञानेन
परमात्मतत्त्वप्रकाशे सति तस्मिन् ज्ञानप्रकाशिते परमात्मतत्त्वे सच्चिदानन्दघन एव
बाह्यसर्वविषयपरित्यागेन साधनपरिपाकात् पर्यवसिता बुद्धिरन्तःकरणवृत्ति-
साक्षात्कारलक्षणा येषां ते तद्बुद्धयः (गी० ५।१७ म० सू०) ।
 
L
 
-
 
तदात्मानं स्वयमकुरुत- प्रागुत्पत्तेः धर्मान्तरेणायमसद्व्यपदेशः । यथा-
असद् वा इदमग्र आसीत् इत्यत्रापि तदात्मानं स्वयमकुरुत इति वाक्यशेषे