This page has been fully proofread once and needs a second look.

शाङ्कस्वेदान्तकोशः
 
२११
 
1
 
--
 
ओमिति तदिति सदिति च त्रिविधस्त्रिप्रकारोऽयं ब्रह्मणो निर्देशो नाम्नां पाठः । "तदिति

वा एतस्य महतो भूतस्य नाम भवति" इत्यैतरेयके, सदेव सोम्येदमग्र आसीदिति

छान्दोग्ये च एतेषां शब्दानां ब्रह्मनामत्वप्रसिद्धेः (तत्रैव नी० क०) । ॐ तत्सदित्येवं

रूपो ब्रह्मणः परमात्मनो निर्देशो निर्दिश्यतेऽनेनेति निर्देशः प्रतिपादकः शब्दो नामेति

यावत् (तत्रैव म० सू० ) । ॐ तत्सदिति एष निर्देश: निर्दिश्यतेऽनेनेति निर्देशो

ब्रह्मणस्त्रिविधो नामनिर्देशः । ॐ इति ब्रह्मतत्त्वमसि सदेव सोम्येत्यादिवेदान्तेषु

ब्रह्मविद्भिः स्मृतश्चिन्तितः (तत्रैव भा० ) । यथा च - शोधितं तत्पदलक्ष्यं वस्तु

दर्शयत्यात्मप्रभमित्यादिना शिवमानन्दरूपम् । अरूपगन्धरसकमित्यर्थः (सं० शा०

३।२९१ सु० टी०) । यथा च - तच्छब्दवाच्यं शबले स्थितिमधिष्ठानत्वेनानुमतमित्यर्थः ।

एवंभूतं विष्णोः पदं तत्पदलक्षितं वाक्यार्थान्वयि गृह्यतामिति योजना (तत्रैव अ०

टी०) । यथा च चतुर उपाधिचिदाभासप्रतिबिम्बबिम्बान् । तदर्थभाजस्तत्पदार्थगतान्

(तत्रैव ३।२७५ सु० टी०) । यथा च - तदेवं कार्यकारणादिव्यवहारस्य मायामात्रत्वात्

प्रागुक्तेन न्यायेन करणत्वेश्वरत्वादिसमस्तविकल्परहितं निर्विशेषसच्चिदानन्दमात्रं ब्रह्म

तत्पदार्थो वाक्यार्थान्वययोग्यतया संशोधित इदानीम् (तत्रैव अ० टी०) ।२. परोक्षबुद्धि-

विषयस्तच्छब्दार्थः पूर्वानुभूतपदार्थपरामर्शकः । यथोक्तम्- इदमस्तु सन्निकृष्टं

समीपतरवर्त्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टे तदिति परोक्षं विजानीयात् । तमानय

य इहास्तीत्यादौ । स किं सखा साधु न शास्ति योऽधिपम् (कि० १।५) । इत्यादौ ।

एवं प्रकान्तपरामर्शस्तच्छब्दवाच्यः । स आत्मा तत् त्वमसि श्वेतकेतो (छा० ६।१६।३) ।

३. यथा - ज्यायसी चेत् कर्मणस्ते मता बुद्धिर्जनार्दन । तत् किं कर्मणि घोरे मां

नियोजयसि केशव (गी० ३।१ ) । यथा च - प्रथमं तत् पदार्थो लक्षणप्रमाणाभ्यां

निरूप्यते । तत्र लक्षणं द्विविधम् - स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव

लक्षणं स्वरूपलक्षणम् । यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म

(तै० २।१।१ ) । आनन्दो ब्रह्मेति व्यजानात् (तै० ३।६) इति श्रुतेः । तटस्थलक्षणं

तु ... प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् (वे०प० ७५०) ।
 
'1
 
-
 
-
 

 
तत्परायणः - , तत्परायण
ब्रह्मपरायणः । ब्रह्म एव परमयनं स्थानं यस्यासौ तत्परायणः ।

यथा - तत्परायणा इत्यनेन वैराग्यप्रकर्ष इत्युत्तरोत्तरस्य पूर्वपूर्वहेतुत्वं द्रष्टव्यम्

(गी० ५/१७ म० सू० ) ।
 

 
तत्प्रख्यम् - , तत्प्रख्य
पूर्वमीमांसाशास्त्रस्यायमेको न्यायः । तत्रख्यापकेन शास्त्रान्तरेण

यन्नामधेयं क्रियते तत् तत्प्रख्यम् । यथा -तप्रख्यन्यायेन नामत्वम् । तथाहि - अग्निहोत्रं
 
-