This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
वसन्ते-वसन्ते ज्योतिषा यजेत इत्यत्र ज्योतिः शब्दो ज्योतिष्टोमविषयो भवति (ब्र०

सू० १ । १ । २३ शा० भा०) ।
 
-
 

 
तज्जलान्, तज्जल
ब्रह्म जगतो जन्मस्थितिलयकरणत्वात् । ब्रह्मण एव जगतो जन्मस्थिति-

लया भवन्ति । तत्तस्माद् जः अर्थात् जायते, लः अर्थात् लीयते, अन् अर्थात्

अनिति प्राणिति जीवतीति तज्जलानिति । यथा - यत्कारणं सर्वं खल्विदं ब्रह्म

तज्जलाविति । शान्तमुपासीत इत्याह । एतदुक्तं भवति यस्मात् सर्वमिदं विकारजातं

ब्रह्मैव तज्जत्वात्तल्लत्वात्तदनत्वाच्च (ब्र० सू० १/२/१ शा० भा० ) ।
 
२१०
 
-
 

 
तटस्थलक्षणम् - , तटस्थलक्षण
लक्षणं द्विविधं भवति - स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र

स्वरूपभूतं लक्षणं स्वरूपलक्षणमुच्यते । यथा - लौहित्यम् उष्णता प्रकाशश्च दीपकस्य

लक्षणम् । तटस्थलक्षणं तु लक्ष्यस्य यावत्कालम् अस्थित्वापि व्यावर्तकं भवति । यथा

गन्धवत्त्वं पृथिव्या लक्षणम् । महाप्रलये पृथिवीपरमाणुषु उत्पत्तिकाले घटादिषु च

गन्धाभावेऽपि गन्धवत्त्वं पृथिव्या लक्षणं तटस्थलक्षणमुच्यते । यथा - तत्र लक्षणं

द्विविधम् – स्वरूपलक्षणं तटस्थलक्षणं चेति । तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् ।

यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् । सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१।१ ) । आनन्दो

ब्रह्मेति व्यजानात् (तै० ३।६) इति श्रुतेः । ननु स्वस्य स्ववृत्तित्वाभावे कथं लक्षणत्वमिति

चेत्, न । स्वस्यैव स्वापेक्षया धर्मिधर्मभावकल्पनया लक्ष्यलक्षणसम्भवात् । तदुक्तम्-

आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः । अपृथक्त्वेऽपि चैतन्यात् पृथगिवाव -

भासन्ते । तटस्थलक्षणं तु. यावलक्ष्यकालमनवस्थितत्वे सति यद् व्यावर्तकं तदेव

यथा गन्धवत्त्वं पृथ्वीलक्षणम् । महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु

गन्धाभावात् । प्रकृते ब्रह्मणि च जगज्जन्मादिकारणत्वम् । अत्र जगत्पदेन कार्यजातं

विवक्षितम् । कारणत्वं च कर्तृत्वमतोऽविद्यादौ नातिव्याप्तिः (वे० प० ७ १० ) ।

एवं च सच्चिदानन्दरूपं ब्रह्मणः स्वरूपलक्षणम्, जगज्जन्मस्थितिलयकारणं

ब्रह्मणस्तटस्थलक्षणम् । अत्र करणमित्यस्य कर्तृत्वरूपोऽर्थः । यथा च - सजातीय-

विजातीयव्यावृत्तिप्रयोजनो धर्मो लक्षणं नाम । तदिह परिदृश्यमानं जगदेव लक्षणं

ब्रह्मणः.... । न जगद् ब्रह्मलक्षणं किन्तु तत्प्रतिकारणत्वम् । कारणत्वं तु

ब्रह्मलक्षणमित्यर्थः (ब्र० सू० १/१/२ वे० क० त० ) ।
 
....
 
-
 
-
 
तत् -

 
तत्, तद्
१. ब्रह्मणो नाम । यथा - ॐ तत्सदित्येष निर्देशो निर्दिश्यतेऽनेनेति

निर्देशस्त्रिविधो नाम निर्देशो ब्रह्मणश्चिन्तितः (गी० १६।२३ शा० भा०) । यथा च -