This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
किन्तु आत्मनि अनात्मपदार्थस्वरूपाणामध्यासः । ६. अयोगोलकवह्निसदृशःआत्मानात्मनोः
 

परस्पराध्यासः ।
 
२०९
 
-
 

 
ज्ञानी, ज्ञानिन्
१.. कृतभगवत्तत्त्वसाक्षात्कारः । यथा - ज्ञानी च ज्ञानं भगवत्तत्त्व-

साक्षात्कारस्तेन नित्ययुक्तो ज्ञानी तीर्यमाणो निवृत्तसर्वकामः (गी० ७।१७ शा०

भा०) । यथा च - ज्ञानी तत्त्वज्ञानवान् (तत्रैव) । २. शास्त्रार्थज्ञाता । यथा – ज्ञानमत्र

शास्त्रार्थपाण्डित्यं तद्वद्भ्योऽपि (गी०६।४६ शा० भा० ) ।
 
-
 
-
 
-
 

 
ज्ञानेन्द्रियम् - , ज्ञानेन्द्रिय
ज्ञानजनकेन्द्रियम् । तच्च पञ्च- श्रोत्रम्, त्वक्, चक्षुः, रसनम्,

घ्राणम् । एतेषां देवता दिग्वातार्कप्रचेतोऽश्विनः । एतेषां विषयाश्च - शब्दस्पर्शरूप-

रसगन्धाः। मनस इन्द्रियत्वं नास्ति । मनोऽन्तःकरणम् । यथा - न चान्तः करणस्येन्द्रिय-

तयाऽतीन्द्रियत्वात् कथमहमिति प्रत्यक्षविषयतेति । उच्यते- न तावदन्तःकरणमिन्द्रिय-

मित्यत्र मानमस्ति । मनः षष्ठानीन्द्रियाणि इति भगवद्गीतावचनं प्रमाणमिति चेत्,

न ।अनिन्द्रियेणापि मनसा षट्त्वसंख्यापूरणविरोधात् । नहीन्द्रियगतसंख्यापूरणमिन्द्रियेणै-

वेति नियमः । यजमानपञ्चमा इडां भक्षयन्तीत्यत्र ऋत्विग्गतपञ्चत्वसंख्याया

अनृत्विजापि यजमानेन पूरणदर्शनात् । वेदानध्यापयामास महाभारतपञ्चमान् इत्यत्र

वेदगतपञ्चत्वसंख्याया अवेदेनापि महाभारतेन पूरणदर्शनात् । इन्द्रियेभ्यः परा ह्यर्था

अर्थेभ्यश्च परं मन (का० १।३।१०) इत्यादिश्रुत्या अनिन्द्रियत्वावगमाच्च । (वे० प०

१ प० ) । मनः ज्ञानेन्द्रियं कर्मेन्द्रियं चोभयात्मकमिति सांख्ययोगविदः । मनोऽन्त-

रिन्द्रियमिति न्यायविप्रभृतयः । अस्य देवता चन्द्रमा विषयश्च सुखदुःखादि ।

नैयायिकादिमते ज्ञानेन्द्रियातिरिक्तानामिन्द्रियत्वं नास्ति ।
 
-
 
-
 
...
 

 
ज्योतिः , ज्योतिस्
१. ब्रह्म । यथा - ज्योतीरूपं सम्पद्य छा० उप० - ८-१२-३

, यत आत्मैवात्र ज्योतिः शब्देनावेद्यते प्रकरणात् (ब्र० सू० ४।४।३ शा० भा०) ।

यथा च - एवं प्राप्ते ब्रूमः परमेव ब्रह्म ज्योतिःशब्दमिति । कस्माद् दर्शनात् (तत्रैव

१ । ३ । ४० शा० भा०) । यथा च - ज्योतिरिह ब्रह्म ग्राह्यम् ।... तस्मादिह ज्योतिरिति

ब्रह्म प्रतिपत्तव्यम् (तत्रैव १ । १ । २४ शा० भा०) । २. ज्ञानम् - यथा - ज्योतिरमृतं

दैवं स्वरूपम् प्रकाशात्मकत्वाज्ज्ञानं ज्योतिः । तदेवामृतमविनाशात्मकत्वात् । तस्मात्

तमसो मा ज्योतिर्गमय (बृ० आ० १ ।३।२८ शा० भा०) । ३. देवः । यथा - तद्देवा

ज्योतिषां ज्योतिः (बृ० आ० ४।४।१६ शा० भा०) । ४. ज्योतिष्टोमयागः । यथा -
 
-
 
-