2023-03-12 05:01:00 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
मनननिदिध्यासने तदुत्तराङ्गे, इति विवरणाचार्यमतम्, निदिध्यासनस्यैव प्राधान्यं
श्रवणमननयोरङ्गत्वमिति श्रीवाचस्पतिमतम् । ब्रह्मसूत्रस्य 91919 तथा ४।१।२
भामत्यामेवं पञ्चपादिकाविवरणस्य प्रथमवर्णके द्वितीयवर्णकं च विशेषतो द्रष्टव्यम् ।
एतद्विषये आचार्यब्रह्मदत्तश्रीमण्डनमिश्राभिप्रायज्ञानार्थं प्रसंख्यानशब्दस्तथा ज्ञानकर्म-
समुच्चयशब्दस्तथा मम श्रीशङ्कराप्रागद्वैतवाद ग्रन्थोऽवलोकनीयाः ।
२०८
ज्ञानाकारता - ज्ञानं साकारं तथा निराकारं मन्यते । यस्मिन् दर्शने बाह्याः पदार्थाः
सन्ति तत्र निराकारं ज्ञानम् । यत्र च बाह्याः पदार्थाः भवन्ति तन्मते ज्ञानं साकारम् ।
यथा - यदन्तर्ज्ञेयरूपं तद् बहिर्वदवभासते । सोऽर्थो विज्ञानरूपत्वात् प्रत्ययतयापि
च । (आलम्बनपरीक्षायाम् ६ का०) सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च
भ्रान्तविज्ञानैर्दृश्येतेन्दाविवांद्वये ( प्रमाणविनिश्चयप्रमाणवार्तिकयोः) । यथा च - नासौ
सुगताभिप्रायः । तस्य तु विज्ञानैकस्कन्धवाद एवाभिप्रेतः । तस्मिंश्च विज्ञानवादे
बुद्ध्यारूढेन रूपेणान्तःस्थ एव प्रमाणप्रमेयफलव्यवहारः सर्व उपपद्यते ।... अपि
चानुभवमात्रेण साधारणात्मनो ज्ञानस्य जायमानस्य योऽयं प्रतिविषयं पक्षपातः
स्तम्पज्ञानं कुड्यज्ञानं घटज्ञानं पटज्ञानमिति, नासौ ज्ञानगविषयमन्तरेणोपपद्यत
इत्यवश्यं विषयसारूप्यं ज्ञानस्याङ्गीकर्तव्यम् । अङ्गीकृते च तस्मिन् विषयाकारस्य
ज्ञानेनैवावरुद्धत्वादपार्थिका बाह्यार्थसद्भावकल्पना (ब्र० सू० २।२।२८ शा०
भा० ) ।
ज्ञानाध्यासः - प्रमाणदोषसंस्कारजन्या अन्यविधज्ञाने अन्यविधज्ञानस्य
प्रतीतिः । यथा - प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता । तधीश्चास्य इति हि
द्वयमिष्टं मनीषिभिः ( स० द० सं०) । यथा च - कोऽयमध्यासो नाम । उच्यते
स्मृतिरूपः परत्र पूर्वदृष्टावभासः (ब्र० सू० १1१1१ उपो० शा० भा०) । अत्र
रत्नप्रभाटीकायाम् - अवभासनमवभासः शुक्तिरजतादिविषयकवृत्तिज्ञानम्, तथा
अवभास्यते यत् यथा शुक्तिरजतादि । प्रथमव्युत्पत्तौ ज्ञानाध्यासः द्वितीयव्युत्पत्तौ
अर्थाध्यासः । अध्यासो नाम अधिष्ठानविषमसत्ताकोऽवभासः । अथवा तदभाववति
तप्रकारकोऽवभासः । यथा च - १. देहगतस्य गौरत्वस्य इन्द्रियगतस्य वधिरत्वस्य
आत्मनि अध्यासः धर्माध्यासः । २. कर्तृत्वादिसहितस्य अन्तःकरणस्य धर्मिणः आत्मनि
अध्यासः धर्मसहितधर्मिणोऽध्यासः । ३. शरीरादौ आत्मनस्तादाम्यसम्बन्धाध्यासः ।
४. सम्बन्धसहितशरीराद्यनात्मनां पदार्थनामात्मन्यध्यासः । ५. आत्मनि आत्मनो न
-