This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
२०७
 
प्रमात्रभिन्नत्वं साधनम् । यथा हि - सिद्धान्ते प्रत्यक्षप्रयोजकं किमिति चेत्, किं
ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि किं वा विषयगतस्य । तथा हि त्रिविधं
चैतन्यम् – विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति । तत्र घटाद्यवच्छिन्नं चैतन्यं
विषय- चैतन्यम्, अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यमन्तःकरणावच्छिन्नं
चैतन्यं प्रमातृचैतन्यम् । तत्र यथा तडागोदकं छिद्रान्तिर्गत्य कुल्यात्मना केदारान्
प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति । तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा
निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते । स एव परिणामो
वृत्तिरित्युच्यते । अनुमित्यादिस्थले तु नान्तःकरणस्य वह्न्यादिदेशगमनं वह्न्या-
देश्चक्षुराद्यसन्निकर्षात् । घटादेविषयस्य प्रत्यक्षत्वं तु प्रमात्रभिन्नत्वम् ।.... तदयं
निर्गलितोऽर्थः स्वाकारवृत्त्युपहितप्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति
योग्यत्वं विषयस्य प्रत्यक्षत्वम् (वे० प० १ प०) । अद्वैतवेदान्तमते यत्साक्षादपरोक्षाद्
ब्रह्म (बृ० ३।४।१ ) श्रुतौ अपरोक्षादित्यस्य अपरोक्षमित्यथेन ब्रह्म अपरोक्षं मन्यते ।
तस्य साधनं श्री पद्मपादाचार्यानुयायिमते शब्दः, श्रीवाचस्पतिमिश्रानुयायिमते
मनननिदिध्यासनसंस्कृतमन्तः करणम् । यथा- तच्च ज्ञानमपरोक्षरूपम् । परोक्षत्वेऽ-
परोक्षभ्रमनिवर्तकत्वानुपपतेः ॥ तच्चापरोक्षज्ञानं तत्त्वमस्यादिवाक्यादिति केचित् ।
मनननिदिध्यासनसंस्कृतादन्तःकरणादेवेत्यपरे । तत्र पूर्वाचार्याणामयमाशयः
संविदापारोक्ष्यं न करणविशेषोत्पत्ति निबन्धनम् । किन्तु प्रमेयविशेषनिबन्धन-
मित्युपपादितम् । तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं शब्दजन्यज्ञानमप्य-
परोक्षम् । अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति प्राणोऽस्मि प्रज्ञात्मा तं
मामायुरमृतमुपास्व (कौ० ३।२) इतीन्द्रप्रोक्त-वाक्ये प्राणशब्दस्य ब्रह्मपरत्वे निश्चिते
सति मामुपास्वेत्यस्मच्छब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते शास्त्रदृष्ट्या तूपदेशो
वामदेववत् (ब्र० सू० १।१।३१) इत्यत्र सूत्रे शास्त्रीया दृष्टिः शास्त्रदृष्टिरिति
तत्त्वमस्यादिवाक्यजन्यमहं ब्रह्मेति ज्ञानं दृष्टिशब्देनोक्तमिति । अन्येषां त्वयमाशयः
करणविशेषनिबन्धनमेव ज्ञानानां प्रत्यक्षत्वम्, न विषयविशेषनिबन्धनम् । एकस्मिन्नेव
सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः प्रत्यक्षाप्रत्यक्षत्वव्यवहारदर्शनात् । तथा च
संवित्साक्षात्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया न शब्दजन्यज्ञानस्यापरोक्षत्वम् ।
ब्रह्मसाक्षात्कारेऽपि मनननिदिध्यासनसंस्कृतं मन एव करणम् । मनसैवानुद्रष्ट-
व्यमित्यादिश्रुतेः ।मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया (वे० प० ८ १०) । यथा च -
एवं श्रवणमनननिदिध्यासनान्यपि ज्ञानसाधनानि (तत्रैव ) । अत्रापि श्रवणं प्रधानं
 
-
 
-