This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
समवायसम्बन्धेन घटत्वं कारणमिति पर्यवसितः कार्यकारणभावः । इत्थं घटत्वेन

सर्वघटज्ञानम् । ज्ञानलक्षणाप्रत्यासत्तिरथवा ज्ञानलक्षणासन्निकर्षश्च इन्द्रियसंयुक्तमनः-

संयुक्तात्मसमवेतस्मृतिविषयत्वरूपः । अत्र
अत्र
ज्ञानलक्षणसन्निकर्षेण (स्मरणेन)

पूर्वज्ञातवस्तुनः अलौकिकप्रत्यक्षं जायते । यथा सुरभि चन्दनमिति चाक्षुषे चन्दनस्य

चक्षुर्ग्राह्यत्वेऽपि सौरभस्य तदग्राह्यत्वात् पूर्वज्ञातस्य सौरभस्यालौकिकं प्रत्यक्षं भवति ।

एवं रज्जुसर्पादिबोधे सर्पत्वाद्युपस्थितिर्ज्ञानलक्षणसन्निकर्षादेव भवति । यतः सर्पत्वादौ

चक्षुःसन्निकर्षो नास्ति । एवमेव यत्र धूमत्वेन धूलीपटलं ज्ञातं तत्र धूलीपटलस्यानु-

व्यवसाये भानं ज्ञानलक्षणसन्निकर्षेण भवति । योगजसन्निकर्षश्च योगेन चित्तवृत्ति-

निरोधेन जातः सर्वज्ञत्वादिरूपः योगजः सन्निकर्षः । अनेन देशकालव्यवहितसूक्ष्म-

पदार्थविषयकं प्रत्यक्षं जायते । अयं च युक्तयोगियुञ्जानयोगिभेदेन द्विविधः

सन्निकर्षः । सर्वदा सर्वविषयकज्ञानवान् युक्तस्तथा चिन्ताविशेषसहकारेण

सर्वविषयकज्ञानवान् युञ्जान इति । एतन्नैयायिकवैशेषिकमतम् । अद्वैतवेदान्तिमते

ज्ञानलक्षणसन्निकर्षो न मन्यते । प्रयोजनाभावाद् दोषसद्भावाच्च । यथा हि सुरभि

चन्दनमित्यत्र अपरोक्षं परोक्षं च ज्ञानद्वयम् । चन्दनांशे अपरोक्षं सौरभांशे च परोक्षमिति

ज्ञानद्वयम् । अत एव च पर्वते वन्यनुमाने पर्वतं पश्यामि वह्निमनुमिनोमीति अनुभवो

भवति । अन्यथा न्यायवैशेषिकमते पर्वतमनुमिनोमीत्यनुव्यवसायापत्तिः स्यात् ।

यथा - न्यायमते तु पर्वतमनुमिनोमीत्यनुव्यसायापत्तिः । असन्निकृष्ट-पक्षकानुमितौ तु

सर्वांशेऽपि ज्ञानं परोक्षम् । सुरभि चन्दनमित्यादिज्ञानमपि चन्दन-खण्डांशे अपरोक्षं

सौरभांशे तु परोक्षम् । सौरभ्यस्य चक्षुरिन्द्रियायोग्यतया योग्यत्व-घटितस्य

निरुक्तलक्षणस्याभावात् । न चैवमेकत्र ज्ञाने परोक्षापरोक्षत्वयोरभ्युपगमे तयोर्जातित्वं

न स्यादिति वाच्यम् । इष्टत्वात् । जातित्वोपाधित्वपरिभाषायाः सकल-प्रमाणागोचरतया

अप्रामाणिकत्वात् । घटोऽयमित्यादिप्रत्यक्षं हि घटत्वादिसद्भावे मानं न तु तस्य तस्य

जातित्वेऽपि (वे० प० १ प०) ।
 
२०६
 
-
 

 
ज्ञानसाधनम् - , ज्ञानसाधन
ज्ञानं नाम आत्मानात्मसकलपदार्थबोध: । तच्च ज्ञानं परोक्ष-

मपरोक्षं च । परोक्षज्ञानसाधनमनुमानोपमानश्रुत्याप्तशब्दादीनि । तत्र अपरोक्षज्ञान-

साधनमिन्द्रियार्थसन्निकर्षः इति न्यायवैशेषिकपूर्वमीमांसकजैनबौद्धप्रभृतयः । बुद्धि-

वृत्तिरिति सांख्ययोगविदः। अद्वैतवेदान्तमते ज्ञानगतम् अपरोक्षं तथा विषयगतम-

परोक्षं च भवति । ज्ञानगतापारोक्ष्ये प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्येन सहाभेदः

साधनम् । घटादिविषयगतापारोक्ष्ये तु घटादेर्विषयस्य अन्तःकरणावच्छिन्नचैतन्यरूप-